________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 उपमितिभवप्रपञ्चा कथा। महापापा अभव्या श्रत एवैकान्तेन तेषामयोग्याः / तथा भाव व्याधिनिबर्हणं प्रत्यसाध्यास्तेऽवगन्तव्या इति / तदिदं सौम्य यद् भगवत्पादप्रसादेनास्माभिलक्षणमवधारितमनेन लक्षणेन यथा त्वमात्मखरूपं कथयसि यथा च वयं भवत्वरूपं लक्षयामः तथा त्वं परिशीलनागम्यः कृच्छ्रसाध्ये वर्त्तसे एवं च स्थिते न भवतो महाप्रयत्नव्यतिरेकेण रागादिरोगोपशममुपलभामहे तस्मादत्म यद्यद्यापि न भवतः सर्वमङ्गत्यागशक्तिर्विद्यते ततोऽत्र वितते भागवते प्रवचने कृत्वा भावतोऽविचलमवस्थानं विहायाशेषकाङ्क्षाविशेषान् भगवन्तमेवाचिन्यवीर्यातिशयपरिपूर्णतया निःशेषदोषशोषणमहिष्णुमनवरतं चेतसि गाढभक्त्या व्यवस्थापयन् देशविरत एवावतिष्ठख केवलमनवरतमेतदेव ज्ञानदर्शनचारित्ररूपचयमुत्तरोत्तरक्रमेण विशिष्टं विशिष्टतरं विशिष्टतमं भवता यत्नेनासेवनीयमेवमाचरतस्तेन भविष्यति रागादिरोगोपशमो नान्यथेति / या यमौदृशौ मदुपदेशदाने प्रवर्त्तमानानां भगवतां सद्धर्मगुरूणामस्य जौवस्थोपरि दया सेवाअस्य परमार्थतः परिपालनक्षमा परिचारिका विज्ञेया। ततोऽयं जौवः प्रतिपद्यते तदानौं तहुरुवचनं करोति यावन्नौवं मयैतदेवं कर्त्तव्यमिति निश्चयं तिष्ठति देशविरतः कियन्तमपि कालमत्र भगवन्मतमन्दिरे पालयति धनविषयकुटुम्बाद्याधारभूतं भिक्षापात्रकल्पं जीवितव्यं तस्मिन्नवसरे। एवं च तिष्ठतस्तस्य यो वृत्तान्तः मोऽधुना प्रतिपाद्यते। तत्र यदुक्रम् / यदुत मा तद्दया ददाति तस्मै तत्रितयमहर्निशं केवलं तत्र कदन्ने मूर्छितस्य वनौपकस्य म तस्मिन्बादर इति। तदिहापि तुल्यमेवा For Private And Personal Use Only