________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावा। प्रथमः प्रस्तावः। 123 जौवेभ्यो ज्ञानदर्शनचारिचाणि देयानि नायोग्येभ्यः अयोग्यदत्तानि हितानि न स्वार्थमंसाधकानि संजायन्ते प्रत्युत वैपरौत्यापत्त्यानर्थसन्ततिं वर्द्धयन्ति। तथा चोकम् / धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् / रौ दुःखौघजनको दुःप्रयुकादिवौषधात् // 1 // जातं चास्माभिर्भगवदादिष्टं मुगुरुपारम्पर्यात् जातं भगवत्प्रसादादेव तदुचितानुचितानां जीवानां लक्षणं एतान्येव हि ज्ञानदर्शनपारिचाणि भगवता तेषां जीवानां सङ्ग्रहपरिच्छेदकारकाणि प्रतिपादितानि तत्र येषामाद्यावस्थायामपि कथ्यमानानि तानि प्रौति जनयन्ति तत्सेविनश्चान्ये प्रतिभासन्ते ये च सुखेनैव तानि प्रतिपद्यन्ने येषां मेव्यमानानि च द्रागेव विशेषं दर्शयन्ति ते लघुकर्माण: प्रत्यामन्त्रमोक्षाः सुदारुवद्रूपनिर्माणस्थ तेषां योग्यास्तथा भावरोगोच्छेदं प्रति सुसाध्यास्ते विज्ञेयाः। येषां पुनराधावसरे प्रतिपद्यमानानि तानि न प्रतिभान्ति तदनुष्ठानपरायणांश्चान्यान् चेऽवधीरयन्ति महुरुविहितमहाप्रयत्नेन च ये प्रतिबुध्यन्ते / तथा मेव्यमानानि तानि येषां कालक्षेपेण विशेषं दर्शयन्ति पुनः पुनरतिचारकानिश्चयेन ते गुरुकर्माणो यवहितमोक्षा मध्यमदारुवद्र्पनिर्माणस्य सद्गुरुपरिगौलनया ते योग्यतां प्रतिपद्यन्ते / तथा भावरोगोपशम प्रति ते कच्छ्रमाथा मन्तव्याः / येभ्यः पुनरेतानि निवेद्यमानानि न कथञ्चन रोचन्ते प्रयत्नशतैरपि संपाचमानानि येषु न क्रमन्ते तदुपदेष्टारमपि प्रत्युत ये दिषन्ति ते For Private And Personal Use Only