________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। किन्तीदं भेषजत्रयमासेवस्खेत्युक्तस्तत्किमेवमेष भाषते / अये खाभिप्रायविडाम्बितोऽयं जानौते मदीयानत्याजननिमित्तमेतत् समस्तं वागाडम्बरमिति। ततो विहस्य तेनोक्तं भद्र निराकुलो भव नाधुना भवन्तं किञ्चित्त्याजयामि तवैव पथ्यमेतत्त्वजनमितिकृत्वा वयं ब्रूमो यदि पुनर्भवते रोचते ततोऽत्रार्थ अतः प्रभृति वृष्णौमाशिष्यामहे यत्युनरेतदनन्तरमेव तव पुरतोऽस्माभिर्महाराजगुणवर्णनादिकं विहितं कर्त्तव्यतया च तव किञ्चित्समादिष्टं तत्त्वया किं किञ्चिदवधारितं वा न वेति / तथा धर्मगुरवोऽपि सर्वमिदं चिन्तयन्ति वदन्ति च तच्च स्पष्टतरमिति स्ववुध्यैव योजनौयं ततो यथाऽसौ वनौपकोऽवादीत् यथा नाथ न मया किंञ्चिदत्र भवत्कथितमुपलक्षितं तथापि तावकैः कोमलालापैरुलमितो मनाग मनसि प्रमोदः निवेदितश्च तेन वनौपकेन नाधुना किञ्चित्त्याजयामौदं भवन्तं भोजनमिति सूदवचनश्रवणनष्टभयाकूतेन मता स्वचेतसो वैधुर्यकारणभूतस्तस्य सूदस्य समक्षमादितः प्रभृति समस्तोऽप्यात्मवृत्तान्तः अभिहितश्चासौ सूपकारो यदुतैवं स्थिते यन्मया विधेयं तदाज्ञापयन्तु नाथा येनाधुनावधारयामौति / तथात्रापि विदिततचित्ता यदा धर्मगुरवो वदन्ति / यदुत न वयं भवन्तमशक्नुवन्तं सर्वसङ्गत्यागं कारयामः केवलं यदिदं भवतः स्थिरीकरणार्थ मनेको भगवद्गणवर्णनादिकं वयं कुर्मः / यच्च सम्यग्दर्शनज्ञानादेशचारित्राणामङ्गोकतानामेव भवता मातत्यमनुपालनादिकमुपदिशामः। तदत्र भवान् किञ्चिदवधारयति वा न वेति। तदा वदत्येवं जौवो भगवन्नाहं सम्यक्किञ्चिदवधारयामि / तथापि यौमाकोण For Private And Personal Use Only