________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सद्भावनया मनःप्रसादः प्रादुर्भवति तद्दायकेषु गुरुषु परमोपकारिणो ममैत इति भावयतो भक्तिः अभिधत्ते च तानेष जौवस्तदानौम् / यदुत यूयमेव मे नाथा येरहमेवं दुर्दारुकल्पतया गाढमकर्मण्योऽपि स्वसामर्थन कर्मण्यतां प्राप्य गुणभाजनतां नौत इति / ततस्तदनन्तरं यथा तेन सूदेन तं वनौपकमुपवेश्य मधुरवचनस्तस्य मनःप्रल्हादयता वर्णिता महाराजगुणा दर्शितश्चात्मनोऽपि नत्यभावः ग्राहितः मोऽपि विशेषतस्तदनुचरत्वं समुत्पादितं तस्य महानृपतेरेव विशेषगुणेषु कुतूहलं कथितस्तत्परिज्ञानहेतुळधितनुभावः प्रकाशितं तस्यापि कारणं भेषजत्रयं ममादिष्टः प्रतिक्षणं तस्य परिभोगः दौपितं तत्परिभोगबलेन महानरेन्द्राराधनं प्रतिपादितं महानरेन्द्राराधकानां तत्ममानमेव महाराज्यमिति / सथा धर्मगुरवोऽपि ज्ञानदर्शनसंपन्न प्रतिपन्नदेशविरतिमप्येनं जीवमुपलभ्य विशिष्टतरस्थैर्यसम्पादनार्थं समस्तमेतदाचरन्त्येव / / तथाहि। ते तं प्रत्येवं ब्रूयुः यथा भट्र यदुक्तं भवता यदुत यूयमेव मे नाथा इति युक्तमेतद्भवादृशां किन्तु माधारणं नैवं वक्तव्यं यतो भवतोऽस्माकं च परमात्मा सर्वज्ञ एव भगवान् परमो नाथः स एव हि चराचरस्यास्य त्रिभुवनस्य पालकतया नाथो भवितुमर्हति विशेषतः पुनर्य तत्प्रणोतेऽत्र ज्ञानदर्शनचारित्रप्रधाने दर्शने वर्तन्ते जन्तवस्तेषाममौ नाथः / अस्यैव किङ्करभावं प्रतिपद्य महात्मानः केवलराज्यामादनेन भुवनमप्पात्मकिङ्करं कुर्वन्ति / ये पुनः पापिष्ठाः प्राणिनस्तेऽस्य भगवतो नामापि न जानते / भाविभद्रा एव सत्त्वाः For Private And Personal Use Only