SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। भगवन्नाहं धनविषयादिकं कथञ्चन मोक् पारयामि यद्यत्र विद्यमानेऽपि भवति किञ्चिच्चारित्रं तन्मे दीयतामिति। ततो यथा विज्ञाय तस्य रोरस्याग्रहविशेषं स सूरिश्चिन्तयति स्म नास्येदानीमन्यः शिक्षणोपायोऽस्ति ततोऽस्मिन् सत्येव दीयतां पश्चाज्ञातमदीयानगुणः स्वयमेवैतत्कदन्नमेष विहास्यति। एवं च विचिन्त्य दापितं तत्तेन भुक्नमितरेण तदुपयोगेन शान्ता बुभुक्षा तनूभूता रोगाः प्रवर्द्धितमञ्जनसस्लिक्षजनितादधिकतरं सुखं जातो मनःप्रसादः प्रादुर्भुता तदायके तत्र पुरुषे भक्तिः अभिहितश्चासौ तेन यथा भवानेव मे नाथो येनाहं भाग्यविकलोऽप्येवमनुकम्पित इति / तथा धर्मगुरवोऽप्येवं बद्धवाग्रहत्वेनामुञ्चति धनविषयादिकमत्र जौवे परिकलयन्ति न शक्यते तावदयमिदानौं सर्वविरतिं ग्राहयितुं तदेवं स्थिते देशविरतिस्तावदस्मै दौयतां तत्पालनेनोपलब्धगुणविशेषः स्वयमेव सर्वसङ्गपरित्यागं करिष्यतीत्याकलय्य तथैव कुर्वन्ति तदनेनैतदुक्तं भवति। अयमत्र क्रमः प्ररूप्य प्रथमं प्रयत्नतः सर्वविरतिं ततः सर्वथा तत्करणपराङ्मुखमुपलभ्य जीवं देशविरतिः प्ररूपणीया देया वा प्रथमं पुनर्देशविरतिप्ररूपणे क्रियमाणे तस्यामेव प्रतिबन्ध विदध्यादयं जीवः माधोश्च सूत्मप्राणातिपातादावनुमतिः स्यादिति ततस्तस्या देशविरतेः पालनं परमानलेशभक्षणतुल्यं विज्ञेयं तदुपयोगेनैवास्य जीवस्य प्रशाम्यति मनाग विषयाकाङ्क्षालक्षणा बुभुक्षा तनूभवन्ति रागादयो भावरोगाः प्रवर्द्धते ज्ञानदर्शनसंपादितात् समर्गलतरं स्वाभाविकखास्यरूपं प्रशमसुखं संजायते For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy