________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / न जानेऽहं स्वरूपं किं चानेन ममैकदिनभाविनेति। तत्किमच बहुना जल्पितेन एष मे निश्चयो नैवेदं भोजनं मोक्रव्यं यदि विद्यमानेऽप्यस्मिन्नात्मीयं भवद्भिर्भोजनं दातुं युक्तं ततो दीयतामितरथा विनैव तेन मरिष्यतीति / तथायमपि जीवः कर्मपरतन्त्रतयाविद्यमानचरणपरिणामस्मद्धर्मगुरूणामग्रतः समस्तमपौदृशं जल्पत्येव प्रत्येव तदास्य गुरुषु विश्रभः सञ्जातो ज्ञानदर्शनलाभेन संप्रत्ययः। तथापि न निवर्तते धनादिभ्यो गाढमूर्छा धर्मगुरवश्वारि ग्राहयन्तस्तत्त्यागं कारयन्ति / ततोऽस्य जीवस्य संजायते दैन्यं ततोऽयं ब्रूते सत्यमेतत्सर्वं यदाज्ञापयन्ति भगवन्तः / किन्तु श्रूयतां भवनिरेका मदीया विज्ञप्तिका रद्धोऽयमात्मा मदीयो गाढं धनविषयादिषु न शक्यते तेभ्यः कथञ्चिनिवर्त्तयितुं म्रियेऽहं त्यागे नूनमेतेषाम् / महता च क्लेशन मयते समुपार्जितास्तत्कथमहमेतानकाण्ड एव मुञ्चामि। किं च। मादृशाः प्रमादिनो न युग्माभिरुपदिष्टाया विरते: स्वरूपमवबुध्यन्ते / किन्तर्हि मादृशामिदमेव कालान्तरेऽपि धनविषयादिकं चित्ताभिरतिकारणं युभदौयं पुनरनुष्ठानं राधावेधकल्पं किं तेन मादृशां भगवतामप्यस्थन एवायं निर्बन्धः / तथाहि। महतापि प्रयत्नेन तत्त्वे शिष्टेऽपि पण्डितैः / प्रकृति यान्ति भूतानि प्रयासस्तेषु निष्फलः // 1 // अथैवमपि स्थिते भगवतामायहः ततो दौयतामेतेषु धनविषयादिषु विद्यमानेषु यदि देयमात्मीयं चारित्रमितरथा पर्याप्तं ममानेनेति। ततश्चैवं वदति सत्यस्मिन् जोवे यथा तेन रसवती For Private And Personal Use Only