________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 उपमितिभवप्रयच्चा कथा / पतिना तं द्रमकं परमात्रग्रहणपराङ्मुखमवलोक्य चिन्तितं यदुत पश्यताहो मोहमामर्थं यदेष रोरः सर्वव्याधिकरेऽत्र कदनके सक्रबुद्धिर्मामकं परमान्नमवधौरयति निश्चितं च प्रागेव मया यथा नास्य वराकस्यायं दोषः किं तर्हि चित्तवैधुर्यकारिणां रोगाणाम् / श्रतः पुनरेनं शिक्षयामि विशेषेण वराकं यद्ययं प्रत्यागतचित्तः परमानमिदं ग्रहीयात् ततोऽस्य महानुपकारः संपद्ये तेति। तथा सद्धर्मगुरवोऽपि चिन्तयन्ति यदुतापूर्वरूपोऽयमस्य जीवस्याहो महामोहः यदायमनन्तदुःखहेतौ रागादिभावरोगवृद्धिकरेऽस्मिविषयधनादिके विनिविष्टबुद्धिर्जाननपि भगवदचनमजानान व श्रद्दधानोऽपि जीवादितत्त्वमश्रद्दधान व न मयोपदिश्यमानां निःशेषक्लेशविच्छेदकारिका विरतिमुररीकुरुते। यदि वा नास्यायं तपखिनो दोषः किन्तर्हि कर्मणमिति। तान्येवेनं जीवं विसंस्थुलयन्ति / अतो नास्माभिरेतत्प्रतिबोधनप्रवृत्तरस्थाविधेयतामुपलभ्य निर्वेदः कार्यः / तथाहि / अनेकशः कृता कुर्याद्देशना जीवयोग्यताम् / यथा स्वस्थानमाधत्ते शिलायामपि मृट्वटः // 1 // यः संमारगतं जन्तुं बोधयेज्जिनदेशिते / धर्मे हितकरस्तस्मानान्यो जगति विद्यते // 2 // विरतिः परमो धर्मः मा चेन्मत्तोऽस्य जायते / ततः प्रयत्नसाफल्यं किं न लब्धं मया भवेत् // 3 // For Private And Personal Use Only