SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / रारथ्यमानान् भवान्न लक्षयति दृष्टा बहवो ऽस्माभिरन्येप्यकल्याणभाजनभूताः प्राणिनः केवलं तेषामपि मध्ये पोखरायितं भवता यतस्त्वं जानन्नपि भगवद्वचनं श्रद्दधानोऽपि जौवादिपदार्थमार्थं विद्यमानेऽपि मादृशे प्रोत्साहके लक्षयन्नपौदृशसामय्याः सुदुर्लभतां भावयन्नपि संसारदुरन्ततां परिकलयन्नपि कर्मदारुणतां बुद्दयमानोऽपि रोगादिरौद्रतां तथापि समस्तानर्थमार्थप्रवर्तकेषु कतिपयदिवसवर्तिषु तुषमुष्टिनिःमारेषु विषयेषु सततं रज्यसे न पुनरस्माभिरनर्थगर्त्तपातिनं भवन्तमवगम्य दययोपदिश्यमानामेनां सकलक्लेशदोषविरेककारिणौँ भागवतौं समस्तपापविरतिं भवानवहेलथापि विलोकयति अन्यच्चैतदपि न लक्षितं भवता यदर्थमेषोऽस्माकं भवन्तं प्रति महानादरः तदाकर्ण्य अत्रापि यत्कारणं यतस्त्वं सज्ञानदर्शनयुक्तया सर्वज्ञशासनाभ्यन्तरभूतो वर्त्तसे। यतश्च प्रथमावसरेऽपि भगवन्मतमवलोक्य जातस्ते प्रमोदः / तद्दर्शनेन च लक्षितास्माभिस्त्वयि भवन्तौ परमात्मावलोकना ततो वयं भगवदनुग्टहीतोयमिति कृत्वा तवोपर्यादरवन्तः। युज्यते च भगवदनुचराणां तदभिमतेषु पक्षपातः कर्तुम् / ये तु जीवाः सर्वज्ञशासनमन्दिरमद्यापि नावगाहन्ते कथञ्चित्प्रविष्टा अपि तत्र न तद्दर्शनेन हृष्यन्ति अत एव च परमात्मावलोकनाया बहिर्भूता लक्ष्यन्ते तांस्तथाभूताननन्तानपि जीवान् पश्यन्तोपि च यदुदासीनभावं भजामहे नोचितास्ते खल्वादरकरणस्य / अयं चेयन्तं कालं यावदवष्टंभोऽस्माकमासीत्। किलामुनोपायेन योग्याः सन्मार्गावतरणस्येति निश्चीयते / ते न कदाचन व्यभिचरन्ति यावता भवता For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy