SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 उपमितिभवप्रयचा कथा / भवन्त्यन्येऽपि पापिनो रोराः केवलं भवता मदृशोऽन्यो निर्भाग्यो नास्तौति मे वितर्कः / यस्त्वमत्र तुच्छे कदन्नके प्रतिबद्धचित्तः सन्नमृतास्वादमेतन्मया दाप्यमानमपि परमानं न ग्टहाति। अन्यच्च / यतस्त्वमत्र भवने प्रविष्टस्तथेदं दृष्ट्वा मनागाल्हादितः परमेश्वरेण चावलोकितः तेन कारणेन भवन्तं प्रत्यादरोऽस्माकं ये पुनरस्मात्सद्मनो बहिर्वर्तन्ते जन्तवो ये चेदं विलोक्यमानं मोदन्ते ये च राजराजेन न निरीक्षितास्तेषां वयं न वार्तामपि पृच्छामो वयं हि सेवकधर्ममनुवर्त्तमानाय एव कश्चिन्महानृपतेर्वल्लभस्तचैव वालन्यमाचरामः / श्रयं चास्माकमवष्टंभोऽभत्किस्लामूढलक्ष्योऽयं राजा न कदाचनापात्रे मतिं कुरुते यावता मोऽप्यस्मदवष्टंभोऽधुना भवता विपरीतचारिणा वितथ व सम्पादितः / तदिदमवगम्य त्यजेदं वैपरौत्यं हित्वेदं कदन्नं ग्रहाणेदं परमान्नं यन्महात्म्येनेते पग्य सर्वत्र सद्मनि वर्तमाना जन्तवोऽमृतहप्ता इव मोदन्त इति एतदपि समस्तमत्र जीवव्यतिकरे सुगुरुराचरत्येव / तथाहि / यदायं जन्तुराविर्भूतज्ञानदर्शनोऽपि कर्मपरतन्त्रतया न स्तोकमात्रमपि विरतिं प्रतिपद्यते तदासु तथाभूतं विषयेषु गाढं मूर्छितचित्ततयाभिरममाणमुपलभ्य मद्धर्मगुरूणां भवत्येवंविधोऽभिसन्धिः। यदुत केयमस्यात्मवैरिता किमित्ययं रत्नदीपप्राप्तनिर्भाग्यपुरुष दवानिर्घयरत्नराशिसदृशानि प्रतनियमाचरणान्यवधौर्य जरत्कारशकलकल्पेषु विषयेषु प्रतिबन्धं विधत्ते। ततस्ते गुरवः प्रादुर्भुतप्रणयकोपा व तं प्रमादपरं जीवमित्थमाचक्षते / अयि ज्ञानदर्शनविदूषक केयं भवतोऽनात्मजता किमिति प्रतिक्षणमस्माना For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy