SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 106 नो कषायनवकं तावदनादिभवाभ्यामवासनापाटवपरायत्ततया प्रवर्त्तमानामेतेषु धनविषयकलत्रादिषु कदन्नकल्पेषु मूळमेष जीवो न निवारयितुं पारयति यतोऽस्य जीवस्य कुशास्त्रश्रवणसंस्कारजा महाण्डममुद्भूतं त्रिभुवनमेतदित्यादयो मोहवितर्काः प्रवर्तन्ते। ये च महजा अपि धनादिषु परमार्थदर्शितया तत्संरक्षणगोचरा अशङ्कनौयेष्वपि गुर्वादिषु शङ्काकारिणो मिथ्यादर्शनोदयप्रभवाः कदभिप्रायाः प्रादुर्भवन्ति ते मरुमरीचिकावत्रचुम्बिन व जलकल्लोलमालाप्रतिभामिनो मिथ्याज्ञानविशेषाः। तत्प्रत्यनौकार्थीपस्थापकेन प्रमाणान्तरेण बाध्यमानाः सम्यग्दर्शनोत्पत्तिकाले निवतन्ते। यः पुनरेष धनविषयादिषु मूलिक्षणो मोहः सोऽपूर्वरूपो यतोऽयं दिमोह दूव तत्त्वधियापि मार्द्धमव्याहत एवास्ते / अनेन हि मोहितोऽयं जौवो जाननपि सकलं कुशाग्रलमजललवतरलं न जानौते / पश्यन्नपि धनहरणस्वजनमरणादिकं न पश्यतोव। पटुप्रजोऽपि जडबुद्धिरिव चेष्टते। समस्तशास्त्रार्थविशारदोऽपि महामूर्खचूडामणिरिव वर्तते / ततश्चास्य जीवस्य प्रतिभाति मुक्कलचारिता रोचते तस्मै यथेष्टचेष्टा विभेत्ययं व्रतनियमनियन्त्रणायाः किम्वनोकेन न शक्नोत्ययं जौवस्तदा काकमांसभक्षणादपि निवृत्तिं विधातुमिति / एवं च स्थिते यत्तदुक्तं यदुत रोरं मूर्छातिरेकेण पुनः पुनः स्वभोजनभाजने दृष्टिं पातयन्तमुपलभ्य स धर्मबोधकराभिधानो रसवतीपतिस्तस्याभिप्रायमवगम्य मनाक् सपरुषमित्थमभिहितवान् अरे द्रमक दुर्बुद्धे केयं भवतो विपरौतचारिता किमितीदं परमानं कन्यकया प्रयत्नेनापि दीयमानं त्वं नावबुद्ध्यसे For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy