________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / प्रत्यक्ष एव धर्मः। तथा हि। सामान्येन तावद्धर्मस्य वौष्येव रूपाणि द्रष्टव्यानि भवन्ति / तद्यथा। कारणं स्वभावः कार्यं च / तत्र मदनुष्ठानं धर्मस्य कारणं तद् दृश्यत एव। स्वभावः पुनईिविधः माश्रवोऽनावश्च। तत्र साश्रवो जौवे शुभपरमाणपचयरूपः / अनाश्रवस्तु पूर्वोपचितकर्मपरमाणु विलयमावलक्षणः / स एष द्विविधोऽपि धर्मस्वभावो योगिभिर्दृश्यते अस्मादृशैरप्यनुमानेन दृश्यत एव / कार्य पुनर्धर्मस्य यावन्तो जीवगताः सुन्दरविशेषास्तेऽपि प्रतिप्राणिप्रसिद्धतया परिस्फुटतरं दृश्यन्त एव / तदिदं कारणस्वभावकार्यरूपत्रयं पश्यता धर्मस्य किं न दृष्टं भवता येनोच्यते न दृष्टो मया धर्म इति। यस्मादेतदेव तृतीयं धर्मध्वनिनाभिधीयते केवलमेष विशेषो यदुत मदनुष्ठानं कारणे कार्योपचाराद्धर्म इत्युच्यते / यथा तन्दुलान् वर्षति पर्जन्य इति। स्वभावस्तु यः माश्रवो निगदितः स पुण्यानुबन्धिपुण्यरूपो विज्ञेयः। यः पुनरनाश्रवः स निर्जरात्मको मन्तव्यः / स एष द्विविधोऽपि स्वभावो निरुपचरितः साचाद्धर्म एवाभिधीयते / यत्त्वमौ जीववर्तिनः समस्ता अपि सुन्दर विशेषास्ते कार्ये कारणोपचाराद्धर्मशब्देन गौयन्ते यथा ममेदं शरीरं पुराणं कर्मति / ततः पुनरेष जीवो ब्रूयात् भगवनत्र चये कतमत्पुनः पुरुषेणोपादेयं भवति / ततो धर्मगुरुरभिदधीत / भद्र मदनुष्ठानमेव तस्यैवेतरदयसम्पादकत्वात् / म ब्रूयात् / किं पुनस्तत्मदनुष्ठानम् / ततः मद्धमसूरयोऽभिदधौरन् / सौम्य माधुधर्मों सहिधर्मश्च / तस्य पुनर्दिविधस्थापि मूलं सम्यग्दर्शनम् / ततोऽयं जीवो वदेत् / For Private And Personal Use Only