________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 103 ननवरतं भोजयति अन्यांश्च समस्तशभविशेषान् संपादयति तथा सर्वेषामपि जौवगतानामशोभनविशेषाणामधर्म एवान्तरङ्ग कारणं स एव हि दुरन्तोऽमुं जौवं दुष्कूलेषत्पादयति निःशेषदोषनिवासतां प्रापयति सर्वव्यवसायानस्य विफलयति उपनतभोगोपभोगविघ्नभूतं शक्तिवैकल्यं जनयति अपरांश्चामनोज्ञाननन्तान् विशेषानस्य जौवस्थाधत्ते तस्माद्यदलेनैताः समस्तसम्पदः स एव धर्मः प्रधानः पुरुषार्थः अर्थकामौ हि वाञ्छतामपि पुरुषाणां न धर्मव्यतिरेकेण संपद्यते धर्मवतां पुनरतर्कितौ स्वत एवोपनमेते। अतोऽर्थकामार्थिभिः पुरुषैः परमार्थतो धर्म एवोपादातं युक्तास्तस्मात्म एवं प्रधान इति यद्यप्यनन्त ज्ञानदर्शनवीर्यानन्दात्मकजीवस्वरूपावस्थानलक्षणचतुर्थोऽपि मोक्षरूपः पुरुषार्थी निःशेषक्लेशराशिविच्छेदरूपतया खाभाविकखाधौनानन्दात्मकतया च प्रधान एव तथापि तस्य धर्मकार्यत्वात् तत्प्राधान्यवर्णनेनापि परमार्थभूतः सत्सम्पादको धर्म एव प्रधानः पुरुषार्थ इति दर्शितं भवति / तथा चाभ्यधायि भगवता धनदो धनार्थिनां धर्मः कामार्थिनां सर्वकामदो धर्म एवापवर्गस्य परम्पर्येण साधक इति / नातः प्रधानतरं किञ्चिदस्तीत्युच्यते। धर्माख्यः पुरुषार्थाऽयं प्रधान इति गम्यते / पापग्रस्तं पशोस्तुल्यं धिग् धर्मरहितं नरम् // तदिदमाकर्ण्य म जीवोऽभिदधौत भगवन्तौ तावदर्थकामौ माक्षादुपलभ्येते योऽयं पुनर्भगवद्भिर्धर्मो वर्णितः स नास्माभिः क्वचिदृष्टः। ततो निदर्श्यतामस्य यत्स्वरूपमिति / ततो धर्मस्तुरिराचचौत / भद्र मोहान्धाः खल्वेनं न पश्यन्ति विवेकिनां पुनः For Private And Personal Use Only