________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अवाप्यते ऽन्यैरदयोपगृहनं न कोटिकोटयापि तदस्ति कामिनाम् // अतः किन्न पर्याप्तं तेषां तस्मात्काम एव प्रधानः पुरुषार्थः / अत एवाभिहितम् // कामाख्यः पुरुषार्थाऽयं प्राधान्येनैव गौयते / नौरसं काष्ठकल्पं हि धिक्कामविकलं नरम् // तदेतदाकर्य म जीवो हर्षप्रकर्षण वहृदयादयुत्कलितः प्रकाशमेवं ब्रूयात् माधु माधुदितं भट्टारकैः बहोः कालादद्य सुन्दरं याख्यानमारब्धं यद्येवं दिने दिने कथयथ ततो वयमक्षणिका अपि सन्तोऽवहितचित्ततयाकर्णयाम इति / तदेतद्धर्मगुरुभिः खसामर्थन तस्य जीवस्य मुखमुद्दाटितमित्यवगन्तव्यम् / एवं च वदति तस्मिन् जौवे धर्मगुरूणामिदं मनसि वर्त्तते। यदुत पश्यनाहो महामोहविजंभितं यदेते तदुपहताः प्राणिनः प्रसङ्गकथितयोरप्यर्थकामकथयो रज्यन्ते न पुनर्यनतोऽपि कथ्यमानायां धर्मकथायाम्। तथा हौहास्माभिरर्थकामप्रतिबद्धचेतमा जुद्रप्राणिनामभिप्रायो वर्णितः / अयं तु वराकस्तत्रेव सुन्दरताबुद्धिं विधत्ते / तथाप्यस्य श्रवणाभिमुखीकरणेन सफलोऽस्मत्परिश्रमः सर्वथा मच्चिन्तितप्रतिबोधोपायबीजेन मुक्तोऽङ्करो भविष्यत्यस्य मार्गावतार इत्येवं खचेतस्यवधार्य तैरभिधीयते। भद्र वयं यथावस्थितवस्तुस्वरूपप्रकाशनं कुर्म एव नालोकं जल्पितुं जानौमः / ततोऽसौ प्रत्यायितचित्ततया बयादेवमेतद्भगवन्नास्त्यत्र सन्देहः गुरवोऽभिदध्युः यद्येवं भद्र तत्किमवधारितं भवतार्थकामयोर्माहात्म्यं मोऽभिदधौत For Private And Personal Use Only