________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / EE निःशेषविशेषा निजमनावासद्भावाभ्यामर्थनैव संपाद्यन्ते तस्मादर्थ एव प्रधानः पुरुषार्थः / अत एवोच्यते // अर्थाख्यः पुरुषार्थाऽयं प्रधानः प्रतिभामते / तणादपि लघु लोके धिगर्थरहितं नरम् // तदेतदाचार्यवदनविनिर्गतमर्थवर्णनमनुश्रुत्य म जौवश्चिन्तयेत् अये शोभनः प्रस्तावः प्रारब्धः कथयितं ततोऽवहितः श्टणुयात् श्टण्वन् बुध्येत बुध्यमानः स्वबोधसूचनार्थ गौवां चालयेत् लोचने विस्फारयेत् वदनं विकाशयेत् चारु चारूतमिति शनैः शनैरभिदयात् / ततस्तैर्लिङ्गः संजातमस्यश्रवणातहलमिति भगवन्तो धर्मगुरवस्तं लक्षयेयुः। ततः सादरतरं पुनस्ते ब्रूयुः भो भो लोकाः काम एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते / तथा हि। न खलु ललितललनावदनकमलमकरन्दास्वादनचतुरचञ्चरौकताचरणमन्तरेण पुरुषः परमार्थतः पुरुषतां खौकुरुते / किं चार्थनिचयस्य कलाकौशल्यस्य धर्मार्जनस्य जन्मनश्च काम एव वस्तुतः परमं फलम् / कामविकलैः पुनः किमेतैः सुन्दरैरपि क्रियते / अन्यच्च / कामासेवनप्रवणचेतमां पुरुषाणां तत्सम्पादका धनकनककलत्रादयो योग्यतया खत एवोपतिष्ठन्ते संपद्यन्ते भोगिनां भोगा इति गोपालबालाबलादीनां सुप्रसिद्धमिदम्। अपिच // स्मितं न लक्षण वचो न कोटिभिन कोटिलः सविलाममौचितम् / For Private And Personal Use Only