________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥३न्धा
स्यन्तिमानं वहति, यन्मां श्राः कीदृशं सरसमाहारं समर्पयंतीत्यादि स रसगारवं करोति. इत्यादि गारवत्रयनिमग्नोऽसौ सर्वमपि तृणप्रायं गणयति. मूलगुणमध्येऽपि कदाचिदतिचारादिना स शिथिलो नवति.
एवं बहुकालं यावदतिचारादिदूषितं चारित्रं प्रपाल्य प्रांते तदनालोच्य मृत्वा तत्रगरजलनिर्गमनस्थानसमीपवर्तियकायतने स यदो जातः, विघ्नंगझानेन स्वपूर्वनवं दृष्ट्वा पश्चात्तापंचकार. हा हा अज्ञानेन मया जिह्वास्वादवशेनैतादृशी देवऽर्गतिः प्राप्ता, एवं विचार्य स्व. कीयशिष्यवर्ग बाह्यनूमौ गत्वा पश्चात्समीपमायांतमुद्दिश्य जिह्वां बहिनिष्कास्य स दर्शयतिस्म. तां दृष्ट्वा शिष्यसाधुवर्गो दृढीनूय तं पृचतिस्म, त्वं कः ? किमर्थं जिह्वां बहिनिष्कासयसि ? यदेणोक्तमहं नवतां गुरुमंगूनामाचार्यो जिह्वास्वादपरवशो मृत्वाऽपवित्रदेवो जातोऽस्मि; मया गृहं मुक्त्वा चारित्रं गृहीत्वा जिनोदितो धर्मो नाताराधितः, गारवत्रयेणायमा- स्मा मलिनीकृतः, चारित्रशिथिलतया निजायुः कयं नीतं, अधुनाऽहमधन्योऽकृतपुण्योऽविरतश्च किं करोमि ? विरतिमनुपालयितुमसमर्थः, स्वकीयमात्मानं शोचामि, अयं पापो जी.
॥३
॥
For Private And Personal