________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥३३॥
दयत्वं यदि तत्कुतोऽतिरेकः ॥ अहिते सहसाऽपराधलुब्धे । सरलं यस्य मनः सतां स धुर्यः ॥१॥ इति विचिंत्य कमलवत्या कुमारपाचे वरो मार्गितः, कुमारेणोक्तं यदीप्सितं तदृणु? कमलवती प्रोवाच यदीप्सितमर्पय तदा रत्नवत्यामपि मयोव सस्नेहा नवथ ? यदप्यनयाऽपराधः कृतस्तथापि दंतव्यमेव. यतो यूयमुत्तमकुलसमुन्नवाः; न घटते चैतत्कुलीनानां ब. हुकालक्रोधरणं. यऽक्त
न नवति नवति च न चिरं । नवति चिरं चेत्फले विसंवदति ॥ कोपः सत्पुरुषाणां । तुल्यः स्नेहेन नीचानां ॥ १ ॥ स्त्रीणां हृदयं तु प्रायो निर्दयं नवति, य. उक्तं-अनृतं साहसं माया । मूर्खत्वमतिलोन्नता ॥ अशाचं निर्दयत्वं च । स्त्रीणां दोषाः स्वन्नावजाः ॥ १ ॥ स्वकार्यतत्परा सती नीचमप्याचरते, श्वं कमलवतीकथनतो रत्नवत्यपि कुमारेण सन्मानिता. अथ स कियदिनानि तत्र स्थित्वा पुरुषोत्तमनृपाशामादाय कनकपुरं प्रति चलितः, पित्रा बहुदासीदासालंकृतिवस्त्रादि समर्पयित्वा स्वपुत्री संप्रेषिता, कुमारस्यापि बहुहस्त्यश्वरश्रपदातिस्वर्णमुक्ताफलादि समर्पितं. रणसिंदो रत्नवतीमादाय कमलवत्या
For Private And Personal