________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥३०॥
मपि विपरीतं करिष्यतीति समीप एव रक्षणीय इति मनस्यालोच्य दीर्घराझोक्तं किं तीर्थ- गमनेन ? अत्रैव गंगायास्तीर्थप्रायायास्तटे दानशालास्थिता दानपुण्यं कुरुध्वं ? किमन्यत्र गमनेनेति धनुमंत्रिणापि प्रतिपन्न. पश्चाऊंगायास्तटे दानशालायां स्थितेन तेन लाक्षागृहात्क्रोशध्यं यावत्सुरंगा दापिता. वरधनुपात्पुिष्पचूलराझोऽपि झापितं; यदद्य वासभुवने पुत्र्याः स्थाने सकलशृंगारालंकृता रूपवती दासी प्रेषणीया, तेनापि दासी प्रेषिता. वरधनुना प्राणवल्लन्नेन मित्रेण साई ब्रह्मदत आवासभुवनं प्राप्तः. दास्यपि तत्रागता, ब्रह्मदत्तश्चिंतयति म. दीया प्राणवल्लनेयं, स दासीस्वरूपं तु न जानाति; तदवसरे वरधनुना शृंगारोपरि कथाकथनं प्रारब्धं, तब्बूवणरसनिमग्नमनसो ब्रह्मदत्तस्यापि नयनयोर्निश नायातिस्म.
तदा मध्यरात्रिसमये सर्वेषु सुप्तेषु चुलन्या समागत्य तल्लाक्षागृहं ज्वालितं; ज्वलद्गृ. हं विलोक्य ब्रह्मदनेनोक्तं नो मित्र किमधुना करणीयं ? तदा वरधनुर्वक्तिस्म, मित्र किमर्थं
चिंतां करोषि ? अस्मिन् स्थानके पादप्रहारं देहि ? ततो ब्रह्मदत्तेन पादप्रहारतः सुरंगामुख- मुद्भाटितं. चावपि स्त्रियं मुक्त्वा पलायितौ. सुरंगाप्रांते वरधनुमंत्रिणा पवनवेगावश्चौ लाजी
॥३०॥
For Private And Personal