________________
Shri Mahavir Jain Aradhana Kendra
नपदेश-:
॥ १४०॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
क्तेति ललितांगदृष्टांतः ॥ एवं कुमारेण शिक्षा दत्ता, एवं परस्परमुत्तरप्रत्युत्तरवाक्यै रजनी निर्जगाम पश्चात्स्त्रीनिरुक्तं, स्वामिन् दुष्करं व्रतपालनं, अनुपमोऽयं वैराग्यरसः, यैरयं स - म्यगाराधितस्तैर्मुक्तिपदमलंकृतमिति स्त्रीनिरपि जंबूवचः प्रमाणीकृतं ।
तस्मिन्नवसरे प्रनवेणोक्तं मदीयं महद्भाग्यं यच्चौरेणापि मया वैराग्यवार्त्ता श्रुता. विषमोऽयं विषयाजिलाषः, दुस्त्यजोऽयं वित्रयरागः, धन्यस्त्वं येन तारुण्येऽपरियाणि वशीकृतानि. जंबूकुमारेणापि ताराय बहवो धर्मोपदेशा दत्ताः, वैराग्यवासितेन प्रजवचौरेणोक्तं त्वं महान् ममोपकारकर्त्ता, अहमपि त्वया सार्द्धं व्रतं गृहीष्यामि प्रातःकालो जातः, कोशिकेन राज्ञा तत् श्रुतं, कोलिकेनापि बहवो रक्षणोपायाः कृताः, परंतु जंबूकुमारेण मनसि न धारिताः, पश्चात्प्रातः समहोत्सवं सप्तदेत्र्यां वित्तं वितीर्य कृतको लिकनृपोत्सवः प्रज्जवादिपचशतीपरिकलितो निजजनकजननीसहितः प्रमदाभिरनुश्रितो निजश्वसुरश्वश्रसंयुतः श्रीसुधर्मस्वामिनः समीपे चारित्रं जग्राह अनुक्रमेणाधीतादशांगी कश्चतुर्दश पूर्वधारी चतुर्ज्ञानसहितः स श्रीसुधर्मस्वामिपट्टभूषणं जातो, घातिकर्मक्षयात्केवलमवाप्य मुक्तिकामिनीकंग
For Private And Personal
मालाटी.
॥ १४० ॥