________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18
॥ सुखावतीव्यूहः ॥ भिक्षुसंघपरिवारेण च तादृश एव बुद्धिनिर्मितो मरणकालसमयें पुरतः स्थास्यति । ते तेनैव तथागतदर्शनप्रसादालंबनेन समाधिनाप्रमुषितया स्मृत्या च्युतास्तत्रैव बुद्धक्षेत्रे प्रत्याजनियंति ॥२८॥
ये पुनरानंद सत्तास्तं तथागतं दशचित्तोत्पादात्समनुस्मरियंति स्पृहां च तस्मिन्बुद्धक्षेत्र उत्पादयिष्यंति गंभीरेषु च धर्मेषु भाष्यमाणेषु तुष्टिं प्रतिलप्स्यते न विपस्यंते न विषादमापत्स्यंते न संसदनमापत्स्यते तश एकचित्तोत्पादेनापि तं तथागतं मनसिकरिष्यंति स्पृहां चोत्यादयियंति तस्मिन्बुद्धक्षेत्रे तेऽपि स्वप्नांतरगता अमिताभ तथागतं द्रक्ष्यंति सुखावत्यां लोकधातावुपपत्स्यते ऽवैवर्तिकाश्च भविष्यंत्यनुत्तरायाः सम्यक्संबोधेः॥२९॥ - इमं खल्वानंदार्थवशं संपश्य' तथागता दशसु दिवप्रमेयासंख्येयासु लोकधातुषु तस्यामिताभस्य तथागतस्य नामधेयं परिकीर्तयंतो वर्ण घोषयंतः संप्रशंसामभ्युदीरयंति । तस्मिन्खलु पुनरानंद बुद्धक्षेचे दशभ्यो दिग्भ्य एकैकस्यां दिशि गंगानदीवालुकासमा बोधिसत्वास्तममिताभं तथागतमुपसंक्रमति दर्शनाय वंदनाय पर्युपासनाय परिप्रश्नीकरणाय तं च बोधिसत्वगणं तांश्च बुद्धक्षेत्रगुणालंकारव्यूहसंपदिशेषान्द्रष्टुं ॥३०॥
1 बुद्धि A. बुद्धि B. C. बुद्धा P. The Chinese translation suggests निर्मितबुद्ध', i.e. Buddha's nirmitakaya. मरणकारे A.C. मरणकालसमये B. मरनकाले P. नुस्मरन्ति स्मृह चिन्ममि A.C. चिन्नमस्मिं B. नुस्मविष्यंति स्मृहां च तस्मिं P. न घिषस्यते A.C. न विपादमापत्स्यते left out in P. पश्यं A. B. C. P. संपदधि A. B. C. P.
For Private and Personal Use Only