________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
47
॥ सुखावतीव्यूहः ॥ यशः प्रकाशयंति गुणमुदीरयंति। तत्कस्य हेतोः। ये केचित्सवास्तस्य भगवतोऽमिताभस्य नामधेयं शृण्वंति श्रुत्वा चांतश एकचित्तोत्पादमप्यध्याशयेन प्रसादसहगतेन चित्तमुत्पादयंति'ते सर्वे ऽवैवर्तिकतायां संत्यनुत्तरायाः सम्यक्संबोधेः ॥२६॥
ये चानंद केचित्सवास्तं तथागतं पुनः सत्कारमनसिकरिष्यति बहुपरिमितं कुशलमूलमवरीपयिष्यंति बोधये चित्तं परिणाम्य तत्र च लोकधातावुपपत्तये प्रणिधास्यंति तेषां सोऽमिताभस्तथागतोऽर्हन्सम्यक्संबुद्धो मरणकालसमये प्रत्युपस्थिते ऽनेकभिक्षुगणपरिवृतः पुरस्कृतः स्थास्यति । ततस्ते तं भगवंतं दृष्ट्वा प्रसन्नचित्ताच्युताः संतस्तत्रैव सुखावत्यां लोकधातावुपपत्स्यते । यश्चानंदाकांत कुलपुत्रो वा कुलदुहिता वा किमित्यहं दष्ट एव धर्मे तममिताभं तथागतं पश्येयमिति तेनानुत्तरायां सम्यक्संबोधी चित्तमुत्पाद्याध्याशयातिशयतया संतत्या तस्मिन्बुद्धक्षेत्रे चितं संप्रेथोपपतये कुशलमूलानि च परिणामयितव्यानि ॥२७॥ __ ये पुनस्तं तथागतं न भूयो मनसिकरियंति न च बहपरिमितं कुशलमूलमभीक्ष्णमवरोपयिष्यंति तेषां तादशेनैव" सो ऽमिताभस्तथागतोऽर्हन्सम्यक्संबुद्धो वर्णसंस्थानारोहपरिणाहेन
1 From ते to संति left out in C. सर्वे ते P. P.adds पुर before साकारं. Could it be पुनः पुनः साकारं? बहपरिमिर्मितं A. बहपरिनिर्मितं B. बहपरिमिन्नं c. बद्यपरिमिझ P.
तो B.
One expects पुरतः, see p. 14, 1.16; p.48, 1.2. छतः P. घत A. B.C. तथागत A. B. C. P. ध सध्याशयत P. ह्याध्याशयति । अध्याशयत: B. चा A. B. C. 10 भिक्षुम A. B. भीषुम C. P. 11 P.adda ॥ तत्र च बुद्धक्षेत्रे चिन्नं संप्रसयि (i.e. संप्रेय). 12 नादुशैनैव A. तादृशेनैव B. C. P.
For Private and Personal Use Only