SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सुखावतीव्यूहः ॥ नानारत्नलुडितपुष्पसंघातवाहिन्यो नानामधुरस्वरनिर्घोषाः । तासां चानंद कोटीशतसहस्रांगसंप्रयुक्तस्य दिव्यसंगीतिसंमूर्छितस्य' तूर्यस्य कुशलैः संप्रवादितस्य तावन्मनोज्ञघोषो निश्चरति' यथारूपस्तासां महानदीनां निर्घोषो निश्चरति गंभीरोऽज्ञेयो ऽविज्ञेयोऽनेलः कर्णसुखो हृदयंगमः प्रेमणीयो वल्गुमनोज्ञो ऽसेचनकोऽप्रतिकूलः श्रवणायानित्यं शांतमनात्मेति सुखश्रवणीयो यस्तेषां सत्स्वानां श्रोत्रंद्रियाभासमागच्छति ॥ तासां खलु पुनरानंद महानदीनामुभयतस्तीराणि नानागंधरनवृक्षः 'संततानि येभ्यो नानाशाखापत्त्रपुष्पमंजर्योऽवलंबते । तत्र ये सत्तास्तेषु नदीतीरेष्वाकांक्षंति दिव्याभिरामरमणीयां रतिक्रीडां चानुभवितुं तेषां तत्र नदीष्ववतीणीनामाकांक्षतां गुल्फमात्रं वारि. संतिष्ठते । आकांक्षतां जानुमानं कटिमात्र कक्षमात्रमाकांक्षतां कर्णमा वारि संतिष्ठते दिव्याश्च रतयः प्रादुर्भवंति । तत्र ये सत्वा आकांक्षति शीतं वारि भवत्विति तेषां शीतं वारि भवति । य आकांक्षन्युष्णं भवत्विति तेषामुष्णं भवति । य आकांक्षति शीतोष्णं भवत्विति तेषां शीतोष्णमेव तद्वारि भवत्यनुसुखं । ताश्च महानद्यो दिव्यतमालपत्रांगरुकालानुसारितगरोरगसारचंदनवरगंधवासिवारिपरिपूर्णाः प्रवहंति दिव्योत्पलपद्मकुमुदपुंडरीक 1 समुच्छितस्य A.C. P. समुच्छितस्य B. Cf. the small Sukhavativydha, 7th paragraph, where we read: तद्यथापि नाम शारिपुत्र कोटिशतसहस्रांगिकस्य दिष्यस्य तर्यस्य चार्यः संप्रवादितस्य वल्गुमनोज्ञः शब्दो निशरति। नेल: A. B. उनल: C. अनल P.; isit for अनेड? अनित्य B. अचिंत्य P. सम B. 6 म्यलंवन्ते A. C. जवरवन्ने B. चलावन्ते P. पत्ता left out in A. B. ग deest in B. For Private and Personal Use Only
SR No.020817
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 02
Original Sutra AuthorN/A
AuthorMax Muller, Bunyiu Nanjio
PublisherOxford
Publication Year1883
Total Pages131
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy