________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ सुखावतीव्यूहः ॥
O
आयुष्मानानंदो भगवंतमेतदवोचत् । ये च पुनस्ते भगवंश्चातुर्महाराजकायिका देवाः सुमेरुपार्श्वनिवासिनस्त्रा यस्त्रिंशा' वा ' सुमेरुमूर्ध्नि निवासिनस्ते कुत्र प्रतिष्ठिताः । भगवानाह । तत्किं मन्यस आनंद ये त इह सुमेरोः पर्वतराजस्योपरि यामा देवास्तुषिता वा निर्माणरतयो वा परनिर्मितवशवर्तिनो वा' ब्रह्मकायिका वा' ब्रह्मपुरोहिता वा' महाब्रह्मणो वा' यावदकनिष्ठा वा कुच ते प्रतिष्ठिता इति । आनंद' आह । अचिंत्यो भगवन्कर्मणां विपाकः कर्मभिसंस्कारः । भगवानाह । लब्धस्त्वयानंदेहाचिंत्यः कर्मणां विपाकः कर्मभिसंस्कारो न बुद्धानां भगवतामचिंत्यं बुद्धाधिष्ठानं कृतपुण्यानां च सत्त्वानामवरोपितकुशलमूलानां तवाचिंत्या पुण्या विभूतिः । आनंद" आह । न मेऽच भगवन्काचित्कांक्षा वा विमतिर्वा विचिकित्सा वा । अपि तु खल्वहमनागतानां सत्त्वानां कांक्षाविमतिविचिकित्सा निर्घाताय तथागतमेतमर्थं परिपृच्छामि । भगवानाह । साधु साध्वानंदैवं ते करणीयं ॥ १७॥
तस्यां खल्वानंद सुखावत्यां लोकधातौ नानाप्रकारा नद्यः प्रचरंति । संति तत्र महानद्यो योजनविस्ताराः । संति यावडिंशतित्रिंशञ्चत्वारिंशत्पंचाशद्योजनविस्तारा यावद्वादशयोजनावेधा:" सर्वाश्च ता नद्यः सुखवाहिन्यो नानासुरभिगंधवारिवाहिन्यो 3 देवा A. B. C. 4 देवा: B. C 8 कर्मना A. B. P . कर्मणा C.
11 नोद्वेधा: A. C. न द्वेधाः B. नावेधाः P.
2 देवाः B.
1 चायत्रिंशा A. B. C. चायस्त्रिंसा P. 5 देवा B. " देवा: A. B. C. 7 आनंद deest in P. • कर्मना B. P. 10 सानंद deest in P. नोहेला: ?
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
37