________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सुखावतीव्यूहः ॥ गुरुकृता मानिताः पूजिताश्चीवरपिंडपाचशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः' सर्वसुखोपधानस्पर्शविहारैः प्रतिपादिताः । यावंतः सत्वाः श्रेष्ठिगृहपत्यमात्यक्षत्रियब्राह्मणमहाशालकुलेषु प्रतिष्ठापितास्तेषां न सुकरी वार्मनिर्देशेन पर्यतोऽधिगंतुं । एवं जांबूहीपेश्वराश्च प्रतिष्ठापिताश्चक्रवर्तित्वे लोकपालत्वे शक्रत्वे सुयामत्वे सुतुषितत्वे सुनिर्मितत्वे वशवर्तित्वे देवराजत्वे महाब्रह्मत्वे च प्रष्ठापिताः । तावदप्रमेयासंख्येया बुद्धा भगवंतः सत्कृता गुरुकृता मानिताः पूजिता धर्मचक्रप्रवर्तनार्थ चाधीष्टा येषां न सुकरी वार्मनिर्देशेन पर्यतोऽधिगंतुं ॥ स एवंरूपं कुशलं समु. दानयद्यदस्य बोधिसत्वचया चरतोऽप्रमेयासंख्येयाचिंत्यातुल्यामायापरिमाणानभिलायानि कल्यकोटीनियुतशतसहस्राणि सुरभिर्दिव्यातिक्रांतचंदनगंधी मुखात्मवाति स्म। सर्वलोमकूपेभ्य उत्पलगंधी वाति स्म । सर्वलोकाभिरूपश्चाभूत्मासादिको दर्शनीयः परमशुभवर्णपुष्करतया समन्वागतः। लक्षणव्यंजनसमलंकृतेनात्मभावेन तस्य सर्वरनालंकाराः सर्ववस्त्रचीवराभिनिहींराः सर्वपुष्पधूपगंधमाल्यविलेपनछत्रध्वजपताकाभिनिहाराः सर्ववाद्यसंगीत्यभिनिहाराश्च सर्वलोमकूपेभ्यः पाणितलाभ्यां च निश्चरंति स्म । सर्वान्नपानखाद्यभोज्यलेयरसाभिनिहाराः सर्वोपभोगपरिभोगाभिनिहाराश्च पाणितलाभ्यां प्रस्यं दंतःप्रादुर्भवंति
I oftet: A. B. f it: C.P. 2 Some words seem left out here in all the MSs. मात्य left out in B. 4 परमशुभवर्ण A. C. परमसुभवर्ण B. परमसुवर्ण P. 5 चीवराभिर्निहोराः C. रो A. B. C. P.
E 2
For Private and Personal Use Only