________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
28
॥ सुखावतीव्यूहः ॥ स्म । इति हि सर्वपरिष्कारवशिताप्राप्तः स आनंद धमाकरी भिक्षुरभूत्पूर्व बोधिसत्वचया चरन ॥१०॥ __एवमुक्त आयुष्मानानंदो भगवंतमेतदवोचत्। किं पुनर्भगवन्स धर्माकरो भिक्षुर्बोधिसत्वो महासत्वोऽनुतरां सम्यक्संबोधिमभिसंबुध्यातीतः परिनिर्वत उताहोऽनभिसंबुद्धोऽथ प्रत्युत्पन्नो ऽभिसंबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्म च देशयति । भगवानाह । न खलु पुनरानंद स तथागतोऽतीतो नानागतः । अपि त्वेव स तथागतोऽर्हन्सम्यक्संबोधिमभिसंबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्म च देशयति पश्चिमायां दिशीतो कोटीनियुतशतसहस्रतमे च बुद्धक्षेत्रे सुखावत्यां लोकधातावमिताभो नाम तथागतोऽर्हन्सम्यक्संबुद्धोऽपरिमाणैर्बोधिसत्वैः परिवृतः पुरस्कृतोऽनंतैः श्रावकैरनंतया बुद्धक्षेत्रसंपदा समन्वागतः॥११॥
अमिता चास्य प्रभा यस्य न सुकरं प्रमाणपर्यंतमधिगंतुमियंति बुद्धक्षेत्रशतानीयंति बुद्धक्षेत्रसहस्राणीयंति बुद्धक्षेत्रशतसहस्राणीयंति बुद्धक्षेत्रकोटीनीयंति' बुद्धक्षेत्रकोटीशतानीयंति बुद्धक्षेत्रकोटीसहस्राणीयंति बुद्धक्षेत्रकोटीशतसहस्राणीयंति बुद्धक्षेत्रकोटीनियुतशतसहस्राणि स्फुरित्वा तिष्ठतीति। अपि तु खलु पुनरानंद संक्षिप्तेन पूर्वस्यां दिशि गंगानदीवालुकोपमानि"
1 संभूतः C. संभूत P. तीनानागतः P. तीतानागतः B.C. 4 # left out in A. B. प्रभा यस्य left out in B. नं P. तानि । इयन्ति C. P. बुद्धक्षेत्रकोटीसहस्राणि । इयंति repeated in P. E. P. 10 वालिकासमानि A. B.C.
वेवं B. कोठीनियुखवानंद
For Private and Personal Use Only