________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
26
॥ सुखावतीव्यूहः ॥ बुद्धधर्मसंघाचार्योपाध्यायकल्याणमित्रसगौरवो नित्यसंनद्धो बोधिसत्वचीयामार्जवी मार्दवोऽकुहकोऽनिलपको गुणवान्पूर्वगमः सर्वकुशलधर्मसमादापनतायै शून्यतानिमित्ताप्रणिहितानभिसंस्कारानुत्पादविहारैर्निर्माणः स्वारक्षितवाक्यश्चाभूत् । बोधिसत्वचा चरन्स यहाकर्मोत्सृष्टमात्मपरोभयव्यापादाय संवर्तते तथाविधं त्यक्त्वा यहाकर्म स्वपरोभयहितसुखसंवर्तकं तदेवाभिप्रयुक्तवान् । एवं च संप्रजानोऽभूधंद्रामनगरनिगमजनपदराष्ट्रराजधानीववतरन्न जातु रूपशब्दगंधरसस्पष्टव्यधर्मेष्वनुनीतोऽभूत् ॥ अप्रतिहतः स बोधिसत्वचर्यायां चरन्स्वयं च दानपारमितायामचरत्परांश्च तचैव समादापितवान स्वयं च शीलशांतिवीर्यध्यानप्रज्ञापारमितास्वचरत्परांश्च तत्रैव समादापितवान् । नथारूपाणि च कुशलमूलानि समुदानीतवान यैः समन्वागतो यत्र यत्रोपपद्यते तब तवास्यानेकानि निधानकोटीनियुतशतसहस्राणि धरण्याः प्रादुर्भवति ॥ तेन बोधिसत्वचा चरता तावदप्रमेयासंख्येयानि सत्वकोटीनियुतशतसहस्राण्यनुतरायां सम्यक्संबोधौ प्रतिष्ठापितानि येषां न सुकरं वाकर्मणा पर्यतमधिगंतुं । तावदप्रमेयासंख्येया बुद्धा भगवंतः सत्कृता
1 निलपको in all MSS. उत्सष्ट आत्म in all MSS. व्यावाधाय A. B. C. व्यायाधाय P. 4 संग्रजानभूत P. संप्रजानतोऽभूत A. B. C. It probably was originally एवं च संग्रजानोऽभूत ; see Pali sampagano.
in all MSS. C. reads शीलपारमिताक्षांतिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञा.
चरत A. चरतः B. घरता C. चरन P. दा left out in C. यः A. B. ये C.
For Private and Personal Use Only