________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ सुखावतीव्यूहः ॥
एवंरूपयानंद प्रणिधानसंपदा स धर्मकरी भिक्षुर्बोधिसत्त्वो महासत्त्वः समन्वागतोऽभूत् । एवंरूपया चानंद प्रणिधानसंपदाल्पाका बोधिसत्त्वाः समन्वागताः । अल्पकानां चैवंरूपाणां प्रणिधीनां लोके प्रादुर्भावो भवति । परीत्तानां न पुनः सर्वशो नास्ति ॥ स खलु पुनरानंद धर्मकरो भिक्षुस्तस्य भगवतो लोकेश्वरराजस्य तथागतस्य पुरतः सदेवकस्य लोकस्य' समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पुरत इमानेवंरूपान्प्रणिधानविशेषानिर्दिश्य यथाभूतप्रतिज्ञा - प्रतिपत्तिप्रतिष्ठितोऽभूत् । स इमामेवंरूपां बुद्धक्षेत्र परिशुद्धिं बुद्धक्षेत्रमाहात्म्यं बुद्धक्षेत्रोदारतां समुदानयन्बोधिसत्त्वचया चरन्नप्रमेयासंख्येयाचिंत्यातुल्यामाप्यापरिमाणानभिलाप्यानि वर्ष - कोटी नियुतशतसहस्राणि न जातु कामव्यापादविहिंसावितकन् वितर्कितवान्न जातु कामव्यापादविहिंसासंज्ञामुत्पादितवान्न जातु रूपशब्दगंधरसस्प्रष्टव्यसंज्ञामुत्पादितवान् । स दहरमनोहर एव सुरती' सुखसंवासोऽधिवासनजातीयः सुभगः सुपोषोऽल्पेच्छः संतुष्टः प्रविविक्तोऽदुष्टोऽमूढोऽशंको 'जिह्मोऽश्ठोऽमायावी सुखिलोमः प्रियालापो नित्याभियुक्तः' शुक्लधर्मपर्यष्टौ सुनिक्षिप्रधुरः सर्वसत्त्वानामर्थाय महाप्रणिधानं समुदानितवान्
1 प्रणिधीना A प्रणिधाना B. प्रणिधिना C. प्रनिधिना P. in P. 3 ब्राह्मणिकायाः A. B. C. ब्राह्मनिकायाः P. प्रतिज्ञाप्रतिप° C प्रतिज्ञातिप्रतिप° P. 5 सुरतो B. C. P. शुरतो A. s घंको C. अषक: P. ( अनीर्षु: ?). 7 नित्यायुक्तः A. B. C.
E
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
25
2 लोकस्य left out
4 प्रतिज्ञातिप्रप A B.
6 sघको A. B.
[ III. 2.]