SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SMALLER SUKHÂVAT-VYÛHA. 95 सस्ताः । न पुनरेवं द्रष्टव्यं । तत्कस्माद्धेतोः। नामापि शारिपुत्र तत्र बुद्धक्षेचे निरयाणां नास्ति तिर्यग्योनीनां यमलोकस्य नास्ति । ते पुनः पक्षिसंघास्तेनामितायुषा तथागतेन निर्मिता धर्मशब्दं निश्चारयति । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तबुद्धक्षेत्रं ॥६॥ __पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे तासां च तालपंक्तीनां तेषां च किंकिणीजालानां वातेरितानां वल्गुमनोज्ञः शब्दो निश्चरति । तद्यथापि नाम शारिपुत्र कोटिशतसहस्रांगिकस्य दिव्यस्य तूर्यस्य चार्यः संप्रवादितस्य वल्गुमनोज्ञः शब्दो निश्चरति एवमेव शारिपुत्र तासां च तालपंक्तीनां तेषां च किंकिणीजालानां वारितानां वल्गुमनोज्ञः शब्दो निश्चरति । तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धानुस्मृतिः काये संतिष्ठति धर्मानुस्मृतिः काये संतिष्ठति संघानुस्मृतिः काये संतिष्ठति । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तबुद्धक्षेत्रं ॥७॥ तत्किं मन्यसे शारिपुत्र केन कारणेन स तथागतोऽमितायुनीमोच्यते । तस्य खलु पुनः शारिपुत्र तथागतस्य तेषां च मनुष्याणामपरिमितमायुःप्रमाणं । तेन कारणेन स तथागतोऽमितायुनीमोच्यते । तस्य च शारिपुत्र तथागतस्य दश कल्या अनुतरां सम्यक्संबोधिमभिसंबुद्धस्य ॥८॥ तत्किं मन्यसे शारिपुत्र केन कारणेन स तथागतोऽमिताभी नामोच्यते । तस्य खलु पुनः शारिपुत्र तथागतस्याभाप्रतिहता सर्वबुद्धक्षेत्रेषु । तेन कारणेन स तथागतोऽमिताभो नामोच्यते ॥ For Private and Personal Use Only
SR No.020817
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 02
Original Sutra AuthorN/A
AuthorMax Muller, Bunyiu Nanjio
PublisherOxford
Publication Year1883
Total Pages131
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy