SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 APPENDIX 11. रत्नस्य । तासु च पुष्करिणीषु संति पद्मानि जातानि नीलानि नीलवर्णानि नीलनिभीसानि नीलनिदर्शनानि । पीतानि पीतवर्णानि पीतनिसानि पीतनिदर्शनानि । लोहितानि लोहितवर्णानि लोहितनिभीसानि लोहितनिदर्शनानि । अवदातान्यवदातवान्यवदातनिर्भासान्यवदातनिदर्शनानि। चित्राणि चित्रवर्णानि चित्रनिभीसानि चित्रनिदर्शनानि शकटचक्रप्रमाणपरिणाहानि । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तबुद्धक्षेत्रं ॥४॥ पुनरपरं शारिपुत्र तब बुद्धक्षेत्रे नित्यप्रवादितानि दिव्यानि तूर्याणि सुवर्णवर्ण च महापृथिवी रमणीया। तत्र च बुद्धक्षेत्रे त्रिष्कृत्वो रात्री विष्कृत्वो दिवसस्य पुष्पवर्ष प्रवर्षति दिव्यानां मांदारवपुष्पाणां । तब ये सवा उपपन्नास्त एकेन पुरोभक्तेन कोटिशतसहस्रं बुद्धानां वंदंन्यन्याँल्लोकधातून्गत्वा । एकैकं च तथागतं कोटिशतसहस्राभिः पुष्पवृष्टिभिरभ्यवकीर्य पुनरपि तामेव लोकधातुमागच्छंति दिवाविहाराय । एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तबुद्धक्षेत्रं ॥५॥ पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे संति हंसाः क्रौंचा मयूराश्च । ते त्रिष्कृत्वी रात्री विष्कृत्वो दिवसस्य संनिपत्य संगीतिं कुर्वति स्म स्वकस्वकानि च रुतानि प्रव्याहरंति । तेषां प्रव्याहरतार्मिद्रियबलबोध्यंगशब्दो निश्चरति । तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धमनसिकार उत्पद्यते धर्ममनसिकार उत्पद्यते संघमनसिकार उत्पद्यते ॥ तत्किं मन्यसे शारिपुत्र तिर्यग्योनिगतास्ते For Private and Personal Use Only
SR No.020817
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 02
Original Sutra AuthorN/A
AuthorMax Muller, Bunyiu Nanjio
PublisherOxford
Publication Year1883
Total Pages131
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy