________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SMALLER SUKHÂVATI-VYÛHA. 93 तच खलु भगवानायुष्मंतं शारिपुत्रमामंत्रयति स्म । अस्ति शारिपुत्र पश्चिमे दिग्भाग इतो बुद्धक्षेत्र कोटिशतसहस्रं बुद्धक्षेत्राणामतिक्रम्य सुखावती नाम लोकधातुः। तत्रामितायुनीम तथागतोऽर्हन्सम्यक्संबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्म च देशयति । तत्किं मन्यसे शारिपुत्र केन कारणेन सा लोकधातुः सुखावतीत्युच्यते । तत्र खलु पुनः शारिपुत्र सुखावत्यां लोकधातौ नास्ति सवानां कायदुःखं न चित्तदुःखं अप्रमाणान्येव सुखकारणानि । तेन कारणेन सा लोकधातुः सुखावतीत्युच्यते ॥२॥ ___ पुनरपरं शारिपुत्र सुखावती लोकधातुः सप्तभिर्वेदिकाभिः सप्तभिस्तालपंक्तिभिः किंकिणीजालैश्च समलंकृता समंततोऽनुपरिक्षिप्ता चित्रा दर्शनीया चतुर्णा रत्नानां । तद्यथा सुवर्णस्य रूयस्य वैडूर्यस्य स्फटिकस्य। एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तबुद्धक्षेत्रं ॥३॥
पुनरपरं शारिपुत्र सुखावत्यां लोकधातौ सप्तरत्नमय्यः पुष्करिण्यः । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तस्याश्मगर्भस्य मुसारगत्वस्य सप्तमस्य रत्नस्य । अष्टांगोपेतवारिपरिपूर्णः समतीर्थकाः काकपेया सुवर्णवालुकासंस्तृताः । तासु च पुष्करिणीषु समंताच्चतुर्दिशं चत्वारि सोपानानि चित्राणि दर्शनीयानि चतुणी रत्नानां । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य । तासां च पुष्करिणीनां समंताद्रलवृक्षा जाताश्चित्रा दर्शनीया सप्तानां रत्नानां । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तस्याश्मगर्भस्य मुसारगल्वस्य सप्तमस्य
For Private and Personal Use Only