________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
APPENDIX II.
THE SMALLER SUKHÂVATI-VYÛHA'.
॥ नमः सर्वज्ञाय ॥ एवं मया श्रुतं । एकस्मिन्समये भगवाज्यावस्त्यां विहरति स्म जेतवनेऽनाथपिंडदस्यारामे महता भिक्षसंघेन सार्धमर्धत्रयोदशभिर्भिशुशतैरभिज्ञानाभिज्ञातःस्थविरैर्महाश्रावकैः सर्वैरहनिः। तद्यथा स्थविरेण च शारिपुत्रेण महामौद्गल्यायनेन च महाकाश्यपेन च महाकप्फिणेन च महाकात्यायनेन च महाकौष्ठिलेन च रेवतेन च शुद्धिपंथकेन च नंदेन चानंदेन च राहुलेन च गवांपतिना च भरवाजेन च कालोदयिना च वक्कुलेन चानिरुद्धेन च । एतैश्चान्यैश्च संबहुलैर्महाश्रावकैः संबहुलैश्च बोधिसत्तैर्महासत्तैः । तद्यथा मंजुश्रिया च कुमारभूतेनाजितेन च बोधिसत्वेन गंधहस्तिना च बोधिसत्वेन नित्योद्युक्तेन च बोधिसत्त्वेनानिक्षिप्तधुरेण च बोधिसत्वेन । एतैश्चान्यैश्च संबहुलैर्बोधिसस्वैर्महासत्तैः । शक्रेण च देवानामिद्रेण ब्रह्मणा च सहांपतिना। एतैश्चान्यैश्च संबहुलैर्देवपुत्रनयुतशतसहस्रैः ॥१॥
See Journal of the Royal Asiatic Society, 1880, pp. 181-186; Selected Essays, vol. ii. p. 348.
For Private and Personal Use Only