________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
96
APPENDIX II. तस्य च शारिपुत्र तथागतस्याप्रमेयः श्रावकसंघो येषां न सुकरं प्रमाणमाख्यातुं शुद्धानामर्हतां। एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तबुद्धक्षेत्रं ॥९॥
पुनरपरं शारिपुत्र येऽमितायुषस्तथागतस्य बुद्धक्षेत्रे सत्ता उपपन्नाः शुद्धा बोधिसत्वा अविनिवर्तनीया एकजातिप्रतिबद्धास्तेषां शारिपुत्र बोधिसत्वानां न सुकरं प्रमाणमाख्यातुमन्यत्राप्रमेयासंख्येया इति संख्यां गच्छंति ॥ तत्र खलु पुनः शारिपुत्र बुद्धक्षेचे सत्वैः प्रणिधानं कर्तव्यं । तत्कस्माद्धेतोः। यत्र हि नाम तथारूपैः सत्पुरुषैः सह समवधानं भवति । नावरमात्रकेण शारिपुत्र कुशलमूलेनामितायुषस्तथागतस्य बुद्धक्षेचे सत्ता उपपद्यते । यः कश्चिच्छारिपुत्र कुलपुत्रो वा कुलदुहिता वा तस्य भगवतोऽमितायुषस्तथागतस्य नामधेयं श्रोष्यति श्रुत्वा च मनसिकरिष्यति एकरात्रं वा विरात्रं वा बिराचं वा चतूराचं वा पंचरात्रं वा षड्रायं वा सप्तराचं वाविक्षिप्तचिती मनसिकरिष्यति यदा स कुलपुत्रो वा कुलदुहिता वा कालं करिष्यति तस्य कालं कुर्वतः सोऽमितायुस्तथागतः श्रावकसंघपरिवृतो बोधिसत्त्वगणपुरस्कृतः पुरतः स्थास्यति सोऽविपर्यस्तचित्तः कालं करिष्यति च। स कालं कृत्वा तस्येवामितायुषस्तथागतस्य बुद्धक्षेत्र सुखावत्यां लोकधातावुपपत्स्यते। तस्मातर्हि शारिपुत्र इदमर्थवशं संपश्यमान एवं वदामि सत्कृत्य कुलपुत्रेण वा कुलदुहिना वा तत्र बुद्धक्षेचे चितप्रणिधानं कर्तव्यं ॥१०॥
तद्यथापि नाम शारिपुत्र अहमेतर्हि तां परिकीर्तयामि एवमेव
For Private and Personal Use Only