________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
वा मतानि सुभिनानि नैकोपायप्रदर्शनि । मतं सत्यं तु किं तत्र शक्यैषा न विवेकिता ॥ ६३ ॥ कस्यां जातौ भवेन्मोक्षो वेषे कस्मिश्च निर्वृतिः । निश्चेतुमेतद् नो शक्यं बहुभेदो हि दूषणम् ॥ ६४ ॥ तत एवं हि संसिद्धं मोक्षोपायो न विद्यते । जीवादिज्ञानसंप्राप्तौ का स्यादुपकृतिरहा ! ॥ ६५ ॥ प्रपञ्चोत्तरे लब्धे समाधिः सकलोऽजनि । यदि तत्साधनं विद्यां शिवं श्रेयो भवेच्छिवम् ॥ ६६ ॥
परिहार:
पञ्चोत्तरेण संजाता प्रतीतिस्तव ह्यात्मनि । मोक्षोपायस्तथा तात ! एष्यति सहजं मनः ॥ ६७ ॥ ज्ञानं कर्मभावोऽस्ति मोक्षोपायो निजस्थितिः । ज्वलिते ज्ञानदीपे तु नश्येदज्ञानतातमः ॥ ६८ ॥ यो यो बन्धस्य हेतुः स्याद् बन्धमार्गो भवेत् स सः । बन्धोच्छेदस्थितिर्या तु मोक्षमार्गो भवान्तकः ॥ ६६ ॥ राग द्वेषस्तथाऽज्ञानं कर्मणां ग्रन्थिरगा । यस्मात् तकन्निवृत्तिः स्याद् मोक्षमार्गः स एव भोः ! ॥ १०० ॥ संतनामय जीवः सर्वाभासविवर्जितः ।
प्राप्यते स यतः शुद्धो मोक्षमार्गः स एव भोः ! ॥ १०१ ॥ अनन्तभेदकं कर्म चाष्टौ मुख्यानि तेष्वपि । तत्रापि मोहना मुख्या वक्ष्ये तद्धनने विधिम् ।। १०२ ।। मोहनं द्विविधं तत्र दृष्टि चारित्रभेदतः । बोधं हि दर्शनं हन्याच्चारित्रं रागहीनताम् || १०३ ||
( दर्शनं हि दर्शनमोहनीयं कर्म बोधम् - आत्मस्वरूप
For Private And Personal Use Only