________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagars
२८
बोधम्. चारित्रं च चारित्रमोहनीयं कर्म रागहीनताम्-वीतरागताम् हन्यात् इति तत्त्वम्.) क्रोधादियोगतः कर्मबन्धः शान्त्यादिघातकः । अत्रानुभूतिः सर्वेषां तत्र का संशयालुता ॥ १०४ ॥ मतदृष्ट्याग्रहं त्यक्त्वा विकल्पाचरणं तथा । आराध्येतोक्तमार्गो यैः तेषां हि जननाल्पता ।। १०५ ।। जातेर्वेषस्य नो भेदो यदि स्यादुक्तमार्गता। तां तु यः साधयेत् सद्यो न काचित्तत्र भिन्नता ॥ १०६ ॥
(जातिः ब्राह्मणादिः, शूद्र-चाण्डालादिर्वा.) कषायस्योपशान्तत्वं मोक्षे रुचिर्हि केवलम् । भये खेदो दया चित्ते सा जिज्ञासा समुच्यते ॥ १०७ ॥ सद्गुरोर्बोधमाप्नुयात् स जिज्ञासुनरो यदि । तदा सम्यक्त्वलाभः स्यात् आत्मशोधनता अपि ॥ १०८ ।। मतदृष्ट्याग्रहींना यद्वचिगुरुपादयोः । स संलभेत सम्यक्त्वं यत्र भेदो न पक्षता ॥ १०६ ।। अनुभूतिः स्वभावस्य तल्लक्ष्यं तत्र प्रत्ययः । निजतां संवहेद् वृत्तिः सत्यं सम्यक्त्वमुच्यते ॥ ११० ॥ भूत्वा वर्धिष्णु सम्यक्त्वं मिथ्याभासं प्रटालयेत् । चारित्रस्योदयस्तत्र वीतरागपदस्थितिः ॥ १११ ॥ केवलं स्वस्वभावस्य स्थिरा यत्र भवेद् मतिः । सोच्यते केवलज्ञानं देहे सत्यपि निर्वृतिः ॥ ११२ ॥ स्वमोऽपि कोटिवर्षस्य निद्रोच्छेदे समाप्यते । विभावोऽनादिजो दूरे नश्येद् ज्ञाने तथा सति ॥ ११३ ।।
For Private And Personal Use Only