________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्वात्रिंशस्तम्भः।
५०७ ७॥ ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम् । छंदांसि यस्य
पर्णानि यस्तं वेद स वेदवित् ॥ ८॥ तत्र स सर्वविद्यस्यैष महिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योम्नात्मा सुप्रतिष्ठितस्तमक्षरं वेदयतेथ यस्तु स सर्वज्ञः
सर्ववित् सर्वमेवाविवेश ॥ ९॥ एकया पूर्णाहुत्या सर्वान् कामानवाप्नोति ॥ १०॥ प्रथमो यज्ञो योग्निष्टोमः योनेनानिष्ट्वान्येन यजते स
गर्तमभ्यपतत् ॥ ११॥ द्वादश मासाः संवत्सरोग्निरुश्नोग्निर्हिमस्य भेषजमि
त्यादि। १२॥ पुण्यः पुण्येन कर्मणा पापः पापेनेत्यादि । १३ ॥ सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो
हि शुद्धोयं पश्यति धीरा यतयः संयतात्मान इत्यादि। १४॥ स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरंजसा विज्ञेय _इत्यादि। १५॥ द्यावापृथिवी इत्यादि। १६ ॥ पृथिवी देवता आपो देवता इत्यादि ॥ १७॥ पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वमित्यादि ॥ १८॥ शृगालो वै एष जायते यः सपुरीषो दह्यते इत्यादि। १९॥ अग्निष्टोमेन यमराज्यमभिजयत इत्यादि । २० ॥ स एष विगुणो विभुर्न बध्यते संसरति वा न मुच्यते
मोचयति वा न वा एष बाह्यमाभ्यंतरं वा वेद इत्यादि। २१ स एष यज्ञायुधी यजमानोंजसा स्वर्गलोकं गच्छतीत्यादि।
For Private And Personal