________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९८
तत्त्वनिर्णयप्रासाद.
तस्मा॑त् । विराट् । अजायत । विऽराजेः । अधि । पुरुषः । सः । जातः । अति ।
अरिच्यत । पश्चात् । भूमिम् । अथो इर्ति | पुरः ॥ ५ ॥ १७ ॥
यत्पुरुषेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ ६॥
1
यत् । पुरु॑षेण । ह॒विषा॑ । दे॒वाः । य॒ज्ञम् । अत॑न्वत । वसन्तः । अस्य । आसीत् । आ॒ज्य॑म् । ग्रीष्मः । इध्मः । शरत् । हविः ॥ ६ ॥
1
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जा॒तम॑य॒तः ।
तेन॑ दे॒वा अयजन्त सा॒ध्या ऋष॑यश्च ये ॥ ७ ॥
तम् । यज्ञम् । बर्हिषि । प्र । औक्षन् । पुरुषम् । जातम् । अग्रतः । तेन॑ देवा: । अयजन्त | साध्याः । ऋषयः । च । ये ॥ ७ ॥
तस्मा॑द्य॒ज्ञात्सर्व॒हुतः संभृ॑तं पृषदा॒ज्यम् ।
प॒शून्तो॑श्च॑क्रे वाय॒व्या॑नार॒ण्यान्याम्याश्च ये ॥ ८ ॥
तस्मा॑त् । य॒ज्ञात् । सर्वऽहुत॑ः । समऽभृ॑तम् । पृषत्ऽआ॒ज्यम् । पशून् । ताI न् । चक्रे । वायव्यान् । आरण्यान् । ग्राम्याः । च । ये ॥ ८ ॥ तस्मा॑द्य॒ज्ञात्सर्वहुत॒ ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मा॑दजायत ॥ ९ ॥
तस्मा॑त्। य॒ज्ञात् । सर्वऽहुत॑ः । ऋच॑ः । सामा॑नि । जज्ञिरे । छन्दांसि । जज्ञिरे । तस्मा॑त्। यजु॑ः । तस्मा॑त्। अजायत ॥ ९ ॥
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गाव ह जज्ञिरे तस्मात्तस्मा॑जाता अजावयः ॥ १० ॥ १८ ॥ तस्मात् । अश्वः । अजायन्त । ये । के । च । उभयाद॑तः । गावं: । ह । जज्ञिरे । तस्मा॑त् । तस्मा॑त् । जा॒ताः | अजावयः ॥ १० ॥ १८ ॥
For Private And Personal