________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्वितीयस्तम्भः। आजगामामररिपुः पुरं त्रिपुरघातिनः ॥ स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम् ॥ १३ ॥ विचिन्त्यासीद्वरं दत्तं स पुरा पद्मजन्मना ॥ हते तदान्धके दैत्ये गिरीशेनामरद्विषि ॥ १४॥ आडिश्चकार विपुलं तपः परमदारुणम् ॥ तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः ॥ १५॥ किमाडे! दानवश्रेष्ठ! तपसा प्राप्तुमिच्छसि ॥ ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे ॥ १६॥
॥ ब्रह्मोवाच ॥ न कश्चिच्च विना मृत्यं नरो दानव ! विद्यते ॥ यतस्ततोपि दैत्येन्द्र! मृत्युः प्राप्यः शरीरिणा ॥ १७॥ इत्युक्तो दैत्यसिंहस्तु प्रोवाचाम्बुजसंभवम् ।। रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव ! ॥ १८॥ तदा मृत्युर्मम भवेदन्यथा त्वमरो ह्यहम् ॥ इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः ॥ १९ ॥ यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति ॥ तदा ते भविता मृत्युरन्यथा न भविष्यति ॥ २० ॥ इत्युक्तोऽमरतां मेने दैत्यसूनुर्महाबलः॥ तस्मिन् काले त्वसंस्मृत्य तद्वधोपायमात्मनः ॥२१॥ परिहत्तु दृष्टिपथं वीरकस्याभवत्तदा ॥ भुजङ्गरूपी रन्ध्रेण प्रविवेश दृशः पथम् ॥ २२ ॥ परिहत्य गणेशस्य दानवोऽसौ सुदुर्जयः॥ अलक्षितो गणेशेन प्रविष्टोऽथ पुरान्तकम् ॥ २३॥
For Private And Personal