________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५८
तत्वनिर्णयप्रासादभुजङ्गरूपं संत्यज्य बभूवाथ महासुरः ॥ उमारूपी छलयितुं गिरिशं मूढचेतनः ॥ २४ ॥ कृत्वा मायां ततो रूपमप्रतळमनोहरम् ॥ सर्वावयवसंपूर्ण सर्वाभिज्ञानसंवृतम् ॥ २५॥ कत्वा मुखान्तरे दन्तान दैत्यो वजोपमान दृढान् ॥ तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः ॥ २६॥ कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम् ॥ पापो रम्याकतिश्चित्रभूषणाम्बरभूषितः ॥ २७ ॥ तं दृष्ट्वा गिरिशस्तुष्टस्तदालिङ्य महासुरम् ॥ मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः ॥२८॥ अएच्छत् साधु ते भावो गिरिपत्रि! न कत्रिमः ।। या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनि! ॥ २९ ॥ खया विरहितं शून्यं मन्यमानो जगत्त्रयम् ॥ प्राप्ता प्रसन्नवदना युक्तमेवंविधं त्वयि ॥३०॥ इत्युक्तो दानवेन्द्रस्तु तदाभाषत् स्मयञ्छनः॥ न चाबुध्यदभिज्ञानं प्रायस्त्रिपुरघातिनः ॥ ३१॥
॥ देव्युवाच ॥ यातास्म्यहं तपश्चर्तुं वलस्यायतवातुलम् ॥ रतिश्च तत्र मे नाभूत्ततः प्राप्ता त्वदन्तिकम् ॥ ३२॥ इत्युक्तः शंकरः शहां कांचित् प्राप्यावधारयत् ।। हृदयेन समाधाय देवः प्रहसिताननः ॥३३॥ कुपिता मयि तन्वङ्गी प्रकत्या च दृढवता ॥ अप्राप्तकामा संप्राप्ता किमेतत् संशयो मम ॥३४॥
For Private And Personal