________________
Shri Mahavir Jain Aradhana Kendra
२५६
www.kobatirth.org
सटीकता किकरक्षायाम्
प्रतिधर्मसमो लक्ष्यः अनभ्युपेतयुक्ताङ्गेन प्रमाणेन प्रतिरोधतः प्रत्यवस्थानमिति लक्षणं युक्ताङ्गहीनप्रतिप्रमायोपलम्भ उत्थानबीजं सत्प्रतिपक्षत्वमारोप्यम् तद्भ्रान्तिः फलम् प्रमादः प्रतिभाक्षयश्चावसरः सर्वत्रेति वक्ष्यति । दुष्टत्वमूलं तु द्विविधं साधारणमसाधारणं चेति । तत्र साधारणं स्वव्याघातत्वम् । असाधारणं तु त्रिविधम् । युक्ताङ्गहीनत्वमविषयवृतित्वं वेति । अत्र साधारणं तावन्नेदं स्वसाध्यसाधकम् अनङ्गीकृतयुक्ताङ्गेन प्रमाणेन प्रतिरुद्धत्वादिति हि जात्यात्मकः प्रतिषेधः । स च स्वात्मानमपि व्याहन्ति नेदं दूष्यदूषकं तथाविधप्रतिप्रमाणप्रतिरुद्धत्वादि ति । श्रसाधारणं तु युक्ताङ्गहीनत्वं युक्तं व्याप्यादाङ्गमनपेक्ष्य प्रवृत्तत्वादिति । तत्र सूत्रं गोत्वाद्ग। सिद्धियत् तत्सिद्धिरिति । यथा व्याप्तात् तद्गोत्वादेव गोव्यवहारसिद्धिः नाव्याप्तात् पशुत्वादेः तथा व्याप्तादेव कृतकत्वादिहेतेाः साध्यसिद्विर्ना व्याप्तादमूर्तत्वादेरिति यु
१७६
Acharya Shri Kailassagarsuri Gyanmandir
नार्थ काङ्गभावे सत्यदृष्ये दूषणाभिधानमङ्गीकृत्य युक्ता यथा व्याप्तादिति । अयं पिण्डो गौरिति व्यवहर्तव्यः गोत्वात् व्यतिरेकेणाश्ववदिति । अत्र गोव्यवहाराख्यसायेनाविना भूतत्वात् गोत्वादिति हेतोर्यथा साध्यसिद्धयथा च साध्यव्यभिचारिणः पशुत्वादिति हेतोर्न गो व्यवहारसिद्धिरेवमित्यर्थः । नाव्याप्तादिति । अमूर्तत्वा
For Private and Personal Use Only