________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
सटीकतार्किकरक्षायाम्य ध्यातिवचनस्य हेतुत्वव्युदासः। व्याप्तिमल्लिङ्ग तच्चतुभिःपञ्चभिवी रूपैरुपेतं रूपाणि च पक्षधर्मत्वं सपने सत्त्वं विपक्षाझावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । तत्रान्वयव्यतिरेकिणः पञ्च रूपाणि इतरयोस्तु पक्षपक्षयोरभावाच्चत्वारीति व्यवस्थिता ननु लिङ्गतामपि तत्रोच्यत इति चेत् सत्यम् नान्तरीयकतया न तु व्याप्तिवत् प्राधान्यादिदोषः तर्हि मूले कुठार: ताविभत्त्यन्तत्वाभावादेव तघ्यावृत्तर्विशेषणवैयादिति सूक्ष्ममिति चेत् सत्यम् तथापि हेत्वाभासादिव्युदासः फलमिति सूक्ष्मम् विहितेति(तारिवभत्तयन्ता अपि लिङ्गाभासवचना न लिङ्गवचना इति तेन तेषां व्युदासः ग्रन्थस्तु स्थलदृष्ट्योक्त इति गतिः। लिङ्गवचनं हेतुरित्युक्तम् अथ किं तल्लिङ्गमित्याकाङ्क्षायां लक्षणव्यमुक्तं संग्रहे व्याप्यं लिङ्गमित्यादिना तत्र तच्च लिङ्गं व्याप्यमित्येक लक्षणं शेषमेकं तत्राचं व्याचष्टे । व्याप्तिमादिति। निरूपाधिकसम्बन्धशालीत्यर्थः। द्वितीयेऽपि चतुःपञ्चैरिति समासस्य समुचयार्थत्वे विरोधाद् विकल्पार्थतया निगृह्णाति । तच्चतुर्भिरिति । संख्याव्ययेत्यादिना बहुब्रीहिः । बहुब्रीहै। संख्येय इत्यादिना डस्समासान्तः । नन्वेवमपि कदाचिदन्वयव्यतिरेकेण चातुरूप्यमितरयो पाञ्चरूप्यं च स्यात् तचासङ्गतमित्याशय ब्रीहियवादिवदैच्छिकत्वेन तथा उदितानुदितहोमवयवस्थितत्वान्नायं दोष इत्याह । तत्रेति। तथा चतुःपचव्यतिरिक्तसंख्याकत्वानधिकरणरूपोपेतं लिङ्गमिति निवाच्यम् । अन्यथैकैकस्या व्याप्तर्मिलितस्यासम्भवाच्चान्यथा वा रूपैयाप्तिपक्षधर्मतापाधिकरूपैरुपेतं लिङ्गमिति लक्ष
(१) महिमित्यनुमीयते ।
६४०
For Private and Personal Use Only