________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Rameramreminaraumaanweenarama
n a
n
esamanamannamasambanaaras
प्रयोजनदृष्टान्तनिरूपणम् ।
१६९
साधर्म्यवैधयभेदात् । तत्र साधनधर्मप्रयुक्तसाध्यधमवान् साधर्म्यदृष्टान्तः । यथा कृतकत्वेन शब्दानित्यत्वसाधने घटः। साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तिमान् वैधर्म्यद्रष्टान्तः। यथा तत्रैवाकाशः। तदुक्तम् । लौकिकपरीक्षकाणां यस्मिन्नर्थ बुद्धिसाम्यं स दृष्टान्त इति । अत्र लाकिका वैदिकबुद्धिविरहिणः प्रमाणतकाम्यामर्थपरीक्षणक्षमाः परीक्षकाः तेषामुभयेषामपि बुद्धिसम्प्रतिपत्तिर्यत्रास्ति स दृष्टान्तः । सर्वेषां सम्प्रतिपत्तिविषय इति यावत् । अत्र वादिप्रविवादिनाः सम्प्रतिपत्तो तात्पर्यमिति ॥५६ ॥ऽऽ॥
CARNATHMANDUSARMEDICAPAMRApasana
साधर्म्यधान्तस्य विवक्षितं लक्षणमुदाहरणं चाह। तत्रेति । वैधयंदृधान्तस्याप्याह । साध्यधर्मनिवृत्तीति । ननु लोकिकपरीक्षकाणां को विशेषः उभयेषां लैकिकसिद्धत्वाविशेषादित्याशक्य भेदमाह । लौकिका इति । वैदिकबुद्धिविरहिण इति किं तु लौकिकव्यवहारमात्रकुशला इत्यर्थः । बुद्धिसाम्यं (५) बुद्धित्वजातिरिति शहां वारयति । वुद्धिसम्प्रतिपत्तिरिति । एतत्काटियोपादानं सर्वोपलक्षणं काव्यन्तरपर्युदासपरं तदसम्भवादित्याह । सर्वेषामिति । तहि कुत्रापि सर्वसम्प्रतिपत्त्यसम्भवाद् दृशान्तासिद्धिरित्याशयाह । वादिप्रतिवादिनोरिति । तत्सम्प्रतिपत्तो सर्वसम्मतिपत्तिः स्यादेवेति भावः । इति हान्तपदार्थः ॥५६॥ ७ ॥
(१) बुद्धिमामान्यं-पा• E पुः ।
For Private and Personal Use Only