________________
Shri Mahavir Jain Aradhana Kendra
१६८
www.kobatirth.org
सटीकतार्किकरक्षायाम्
पत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षा विमर्षः संशय इति । अत्रोपलब्ध्यनुपलब्धिशब्दाभ्यां साधकबाधकप्रमाणयोर्ग्रहणं (१) तयोरव्यवस्था अभावः तस्मिन् सति विशेषस्मरणापेक्षः समानानेकधर्मविप्रतिपत्तिभ्यः संशयो भवतीति सूत्रार्थः ॥ ५५ ॥ प्रयोजनलक्षणमाह । यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत् प्रयोजनम् । उद्देश्यं प्रयोजनम् । तदुक्तम् यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनमिति ।
६३०
Acharya Shri Kailassagarsuri Gyanmandir
दृष्टान्तलक्षणमाह ।
व्याप्तिसंवेदनस्थानं दृष्टान्त इति गीयते ॥ ५६ ॥ स च साधर्म्य वैधर्म्यभेदेन द्विविधो भवेत् । व्याप्तिग्रहणभूमिर्दृष्टान्त इति । स च द्विविधः ।
विध्यं प्रतीयत इत्याशय वैविध्यपरतया व्याचष्टे । अक्रेति । साधकबाधकप्रमाणाभावसहकृताद् विशेषाग्रहणं तत्स्मरणसव्यपेक्षात् समानधर्मीदिकारणत्रयादेव सँशयो जायते एतत्रैविध्यपरमेव सूत्रमित्यर्थः । इति संशपदार्थः ॥ ५५ ॥
यदुद्दिश्येति । प्रेक्षावत्प्रवृत्तिफलं प्रयोजनम् । यागादिप्रवृत्तेः स्वर्गादि कृष्यादिप्रवृत्तेः प्रसवादिकं चेत्यर्थः । अधिकृत्य विषयीकृत्योद्दिश्येति यावत् । उदेशोऽभिसन्धिः । इति प्रयोजनपदार्थः ॥
(१) रुपादानम् - पा. Bपु.1
For Private and Personal Use Only