________________
Shri Mahavir Jain Aradhana Kendra
ह
www.kobatirth.org
सटीकतार्किकरक्षायाम्
तसमयसञ्चास्मरण सहायं तत्समभिव्याहृतवाक्यार्थप्रत्यभिज्ञाप्रत्यक्षमुपमानमित्याचार्याः ॥ २१ ॥ ऽऽ ॥ उपमानत्रैविध्याय वाक्यार्थत्रैविध्यमाह (१) ।
Acharya Shri Kailassagarsuri Gyanmandir
शो गयय इत्यत्र गवयपदत्यागे तन्त्र वाक्यं नाम किमस्तीति यदर्थप्रत्यभिज्ञानमुपमानं भवेत् । न चैकपदं वाक्यमस्ति न चावाक्यमुपदेशाय कल्पते किं चाचैव तत्समभिव्याहतविशेषणं सङ्ग्रहेऽप्यव्युत्पन्न पदो पेतविशेषणं च तत्साहित्यमुद्धोषवदुन्मत्तगीतं स्यात् । नन्वभिहितपदार्थ संसर्गे वाक्यार्थः न चाच्युत्पन्नं पदं किञ्चिदभिधातुमीष्टे तत्कि - सत्साहित्यमिति चेत् तर्हि श्रूयतामुपमान रहस्यमवहितैः कीदृग्गवय इति यवशब्दप्रवृत्तिनिमि सविशेष पृष्टस्तस्य गवयत्वरूपस्य रूपता निर्देष्टुमशक्यत्वात् तदुपलक्षणं गोसादृश्यमा चढे गोसदृशो गवय इति । तथा च वाक्यादेव गवयशब्दो गोसदृशस्यार्थस्य वाचक इति सामान्यतो व्युत्पन्नमेव विशेषतो व्युत्पत्यर्थ तूपमानमपेक्षत इति । तदुक्तमाचार्यैः वाक्यादेव निश्चिते ऽपि सामान्ये विशेषतr arrara sस्व मानान्तरमनुसरणायमिति । तस्मात् सामान्ये व्युत्पन्नमच्युत्पन्नं च विशेषे यत् तद्व्युत्पन्नपदं तद्युक्तवाक्यार्थमत्यभिज्ञानमेव तत्स्मृतिसहकृतमुपमानमिति लक्षणार्थ इत्यश्रद्धेयमेवापरिशीलिताचार्यवचसामपव्याख्यानमिति ॥ २१ ॥ ऽऽ ॥
२४४
ननुपमानविभागप्रस्तावे वाक्यार्थविभागः प्रकान्तवाजपेयस्य शरदर्णनप्राय इत्याशङ्कयाह । उपमानेति ।
(१) वाक्यार्थभेदमाह - पा. B. |
For Private and Personal Use Only