________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रमाण प्रकरणे उपमाननिरूपणम् ।
अन्त्रातिदेशवाक्यार्थस्त्रिविधः परिगृह्यते ॥ २२ ॥ साधर्म्य धर्ममात्र च वैधर्म्यं चेति भेदतः ।
Acharya Shri Kailassagarsuri Gyanmandir
साधर्म्यादिभेदेनातिदेशवाक्यार्थस्त्रिविधा(२) भवति । तद्वेदात् तस्प्रतिसन्धानात्मकमुपमानमपि त्रिधा भिदात इति भावः । तत्र यथा गौस्तथा गवय इति श्रुतातिदेशवाक्यस्य पश्चाद् वनं गतस्य नागरिकस्य वाक्यानुभूतस्य मोसादृश्यस्य गवये यत् प्रतिसन्धानमयमती गोसदृश इति तत्साधम्योपमानम् । वैधयमानं तु कीगाव इति प्रश्ने गवादिवद् द्विशफेो न भवत्यश्व इत्यतिदेशवाक्याद्द्ववादिवैसा - श्यमधिगतवतः पश्चादेकशफत्वादिरूपस्य वैसादृश्यस्य तुरङ्गमे प्रत्यभिज्ञानम् । धर्ममात्रोपमानं तु उदीच्येनादीरितं दीर्घग्रीवः प्रलम्बोष्ठः कठोरतीक्ष्णक
(१) परिकल्प्यते-पा· A 1 पु. (२) चित्रकारी - पा. Bपु.
es
द्वितीयार्थे त्रैविध्यान्तरोकिशङ्कां निरस्यन श्लोकं व्याचष्टं । साघम्यदीति । वाक्यार्थत्रैविध्यस्योपमानत्रैविध्यप्रयोजकत्वं व्यक्ति । तद्भेदादिति । प्रतिसन्धेयमेदात् प्रतिसन्धानभेद इत्यर्थः । प्रतिसन्धानं प्रत्यभिज्ञानम् । त्रिविधमप्युदाहरति । तत्रेत्यादि । अत्रान्वयरूपत्वात् पूर्व साधर्म्य ततो व्यतिरेकरूपत्वाद्वैधर्म्यं ततः परिशेषाद्धर्ममात्रमिति न्याय्यः क्रमः । लोके तु वृत्तानुसाराह्यत्ययः ।
For Private and Personal Use Only
२४५