________________
Shri Mahavir Jain Aradhana Kendra
५६
www.kobatirth.org
सटीकता किरक्षायाम् ।
अक्षपादग्रहणेन सूचितं मतान्तरेषु न्यूनाधिकसयाकप्रमाणाङ्गीकारं विवृणेति । प्रत्यक्षमेकं चावीकाः कणाद सुगतौ पुनः ॥ १ ॥ अनुमानं च तचाथ साङ्ख्याः शब्दं च ते अपि । न्यायैकदेशिनेोप्येवमुपमानं च केचन ॥ ८ ॥ अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः । अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा ॥६॥ सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः |
(Q)
अर्थापत्त्यादीनामनुमानादावन्तभीवं वक्ष्याम इति उद्देशक्रमानुरोधेन प्रत्यक्षं लक्षयति ।
नन्वग्रिमश्लेोकेषु मतान्तरोपन्यासस्य कः प्रसङ्ग इत्याश क्याक्षपादपदेनाकाङ्क्षोत्थापनादित्याह । अक्षपादेति ।
१०२
Acharya Shri Kailassagarsuri Gyanmandir
न्यायैकदेशिनो भूषणीयाः केचन न्यायैकदेशिनः स्वयमित्यर्थः ॥ ७ ॥ ८ ॥ ९ ॥ ऽऽ ॥
नवपत्यादीनामप्रामाण्यमन्तर्भावो वा वक्तव्यः अन्यथा चतुष्वानिर्वाहात् तदिदानीमपरोक्षेत्यादिना विशेषलक्षणेोक्तिरयुक्तेत्याशङ्कयाह । अर्थापत्त्यादीनामिति । प्रमाकरणत्वान्नाप्रामाण्यं तावदेषामन्तभीवस्तु तलक्षणयोगनिबन्धनस्तज्ज्ञानापेक्ष इति विशेषलक्षणानन्तरभावी न तत्प्रवृत्तिं प्रतिवघ्नातीत्यर्थः । इतीति मत्वति शेषः । तत्र प्रत्यक्षलक्षणस्य प्राथम्ये हेतुमाह । उद्देशेति । उद्देशे तु सर्वप्रमाणोपजीव्यत्वं हेतुरित्युक्तम् ।
(१) अनुमानाद्यन्तभावं - प्रा.
पु. ।
For Private and Personal Use Only