________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MOMICROONDHARWANCHARACTROMuraRINTAINMITTENIONLINE
mommmwwwmovie
प्रमाणाप्रकरणम् ।
y
. शाततानुमेयस्य चानस्य कथं तदभाव सिद्धिযিনি তনু। ল দহ্মিালশিয়ামৰাল না सुखदुःखादिवन्मानसप्रत्यक्षतासिद्धः । तर्हि तद्वदेলালমনিয়াস্কাল নিৰাই জ ঞ্জাदिति चेत् । न निश्वासप्रश्वासहेतुभूतप्रयत्नेनानैकाणात् प्रत्यक्षैव ज्ञाततेत्याशझ्याह । तद्वैशिष्ट्येति । ज्ञानविशित्वेनैवार्थस्य प्रकाशमानत्वादधिके ज्ञाततारूपाधिकार्थे प्रत्यक्षानुभवोऽपि न प्रमाणमित्यर्थः।
ननु माभूध्यक्षमनुमानं वा तथापि ज्ञानसिड्यन्यथानुपपत्तिरूपयार्थीपत्त्या ज्ञाततासिद्धिरिति शङ्कते । ज्ञाततेति । ज्ञातता क्रियाजन्या फलत्वात् ग्रामप्राप्तिवत् सैव क्रिया ज्ञानमिति ज्ञानसिद्धिः । अन्यथा तदेकसाध्यस्य तदभावे कथं सिद्धिरित्यर्थः । अापत्तिमन्यथोपपत्त्या दूषयति । नेति । ज्ञानं मानसप्रत्यक्षं क्षणिकात्मविशेषगुणत्वात् सुखादिवदिति प्रत्यक्षत्वसिद्धावप्यनुमेयत्वे सुखादेरपि तथात्वप्रसङ्ग इत्यर्थः । क्षणिकात्मविशेषपदैस्त्रिभिः क्रमाद्धर्मादेः शब्दस्यात्मगतद्रित्वादेश्च व्युदासः। गुणग्रहणं स्फुटार्थम् । गुणव्यतिरेकेण क्षणिकविशेषाणामात्मन्यमावात् सामान्यविशेषान्त्यविशेषयाश्च क्षणिकपदेनैव नित्तेः। उक्तानुमानस्य प्रतिकूलतर्कपराहतिमाशङ्कते। तहींति। तदेवेति । तेनैव हेतुना सुखादिवदेवेत्यर्थः । यदि ज्ञानमुक्तहेतुना सुखादिवन्मानसप्रत्यक्ष स्यात् तहि तहदेबाबुभुत्सितग्राहामपि स्यात् । तथा च ज्ञानैकनियतसत्ताकत्वात् पूर्वपूर्वज्ञानग्राहकोत्तरोत्तरज्ञानसन्तानाविच्छेदे विषयान्तरोपलब्धिर्न स्यादित्यर्थः। नैष दोषः। जीवनपूर्वकप्रयत्ने हेताव्यभिचारादिति परिहरति। नेति । तस्या
mmmmmmmmmissionwinninnisi
m eminindmminindiananmintmen
For Private and Personal Use Only