SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४३) ३७.] भट्टभास्करभाष्योपेता उदु त्य जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम् । चित्रं देवा नामुद्गादर्नीकं चक्षुर्मित्रस्य वरु'उदिति । उ । त्यम् । जातवेदसमिति जातवेदसम् । देवम् । वहन्ति । केतवः । दृशे । विश्वाय । सूर्यम् । चित्रम् । देवानाम् । उदिति । अगात् । अर्नाकम् । चक्षुः। मित्रस्य । वरुणस्य । 'अथ दाक्षिणं काण्डं सौम्यमेव । तत्र सौरीभ्यामृग्भ्यां गार्हपत्ये जुहोति-उदुत्यमिति प्रथमा गायत्री, द्वितीया त्रिष्टुप् ॥ तत्र प्रथमा-'उदायुषा'* इत्यत्र व्याख्याता । त्यं तं इमं देवं जातवेदसं जातप्रज्ञं जातानां वेदितारं केतवो रश्मय उद्वहन्ति उर्ध्वं वहन्ति दृशे द्रष्टुं विश्वाय विश्वार्थ, विश्वो लोको यथैनं पश्येदिति । ‘सुवर्गाय वा एतानि लोकाय हूयन्ते यद्दाक्षिणानि '+ इत्यादि ब्राह्मणम् ॥ __ अथ द्वितीया-चित्रं चायनीयं देवानामनीकं सनातरूपम्मण्डलम् । यद्वा-देवानां रश्मीनां अनीकं मुखं समुदायस्थान वा । मित्रादीनां देवानामपि चक्षुस्स्थानं, तेपि हि तेन प्रकाशितं पश्यन्ति । यहा--मित्रत्वादिपदप्राप्तिहेतुत्वाच्चक्षुरित्युपचर्यते । उपलक्षणं चैतत् , सर्वदेवतापदलाभहेतुत्वात् ; भवति मण्डलोपासन मिति । ईदृशमण्डलमुदगात् उदेति । छान्द*सं. १-२-८१ सिं. ६-६-१. क.-स्थानीयं. 8म.--मण्डलोपधान. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy