________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
92
तैत्तिरीयसहिता
[का.१. प्र.४.
णस्याग्नेः । आ प्रा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च । अग्ने नय॑ सुपा राये
अस्मान् विश्वानि देव वयुनानि अग्नेः । एति । अप्राः । द्यावापृथिवी इति द्यावापृथिवी । अन्तरिक्षम् । सूर्यः । आत्मा । जर्गतः। तस्थुषः । च । अग्ने । नय । सुपथेति सु-पयां । राये। अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् । युयोधि । अस्मत् । जुहुराणम् । एनः।
सो लुङ्, 'गातिस्था' इति सिचो लुक् । यदा ईदृशम्म ण्डलमुदेति तदा तन्मण्डलान्तर्गतो भगवान् सूर्यः जगतो जङ्गमस्य तस्थुपः स्थावरस्य च विश्वस्यात्मा द्यावाप्रथिवी द्यावाएथिव्यौ अन्तरिक्षं च रश्मिभिराप्राः आपूरयति । प्रा पूरणे पुरुषव्यत्ययः, अदादित्वाच्छपो लुक् । द्योश्च पृथिवी च द्यावाप्रथिव्यौ । 'दिवो द्यावा' इति द्यावदिशः, ‘वा छन्दसि' इति पूर्वसवर्णदीर्घः, 'देवताद्वन्द्वे च ' इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम् , पृथिवीशब्दो ङीषन्तोन्तोदात्तः । ईदृशो भगवाननेन होमेनास्माकमभिमतं साधयत्विति ॥
'आनीध्रीये जुहोति-अग्ने नयेति त्रिष्टुभा ॥ व्याख्याता चेयं ' उभावाम् ' *इत्यत्र । हे अग्ने शोभनेन मार्गेण अस्मान्न
*सं.-१-१-१४
For Private And Personal