SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४०) ३४.] भट्टभास्करभाष्योपेता 87 सर्वस्य प्रतिशीवरी भूमिस्त्वोपस्थ आधित । स्योनास्मै सुषदा भव यच्छस्मैि शर्म सप्रथाः । उपया'सर्वस्य । प्रतिशीवरीति प्रति-शीवरी । भूमिः । त्वा । उपस्थ इत्युप-स्थे । एति । अधित। स्योना । अस्मै । सुषदेति सु-सदा । भव । यच्छे । अस्मै । शर्म । सप्रथा इति स-प्रथाः । 'अतः परं षोडशिग्रहणमन्त्राः पूर्वैस्सह विकल्प्यन्ते । तत्र प्रथमा-सर्वस्येत्यनुष्टुप् ॥ सर्वस्य भूतजातस्य प्रतिशीवरी प्रत्येकंसुखेन शयनाधिकरणभूता । शेतेरौणादिके क्वरच्युत्तरपदाद्युदात्तत्वम् । यद्वा-शयानस्य सर्वभूतजातस्य प्रतिशयनं प्रतिमुखं शयनं बालस्य जननीव करोतीति प्रतिशीवरी । 'अन्येभ्योपि दृश्यते' इति क्वनिप् , 'वनोरच ' इति डीबेफौ । हे इन्द्र ईदृशी भूमिस्त्वामुपस्थे आधित आदधातु स्थापयतु । हे भूमे या त्वमसि अस्मै इन्द्राय यजमानाय वा स्योना सुखा सुषदा सुखासनभूता च भव । किञ्च-अस्मै शर्म शरणं सुखं वा यच्छ देहि । सप्रथाः सर्वत्र प्रथिता विस्तीर्णा । छान्दसस्सर्वस्य सभावः । प्रथया सहितेति वा। बहुव्रहिौ ‘परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy