SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 78 तैत्तिरीयसंहिता [का.१. प्र.४. *तरणिर्विश्वदर्शतो ज्योतिष्कदेसि सूर्य । विश्वमा भासि रोचनम् । 'तरणिः । विश्वदऋशत इति विश्व-दशतः। ज्योतिष्कृदिति ज्योतिः-कृत् । असि । सूर्य । विश्वम् । एति । भासि । रोचनम् । ___ 'अथ सौर्यं गृह्णाति–तरणिरिति गायत्रया ॥ केचिदाहुरेकत्रिशोयमनुवाकोस्मिन्प्रदेशेध्येतव्य इति । अन्ये तु यथाम्नातेनैव सौर्योतिग्राह्यो गृह्यते, नावश्यकमत्राध्ययनमित्याहुः ॥ तरणिः क्षिप्रगामी पापानां तारयिता वा । तरतेरनिप्रत्ययः । विश्वदर्शतः विश्वं दर्शयितव्यं यस्य सः विश्वदर्शतः । दृशेरौणादिकोतच्प्रत्ययः, 'बहुव्रीहौ विश्वं संज्ञायाम् ' इति विश्वशब्दस्यान्तोदात्तत्वम् । यहा–विश्वस्य दर्शयिता विश्वदर्शतः । व्यत्ययेन पूर्वपदान्तोदात्तत्वम् । ज्योतिप्कृत् ज्योतिषः प्रकाशस्य कर्ता उत्पादयिता । यहा-ज्योतिषां ग्रहनक्षत्रादीनां कर्ता उद्भावयिता, त्वदधीनप्रकाशत्वात्तेषाम् । यथाहुः___ 'सूर्याभिमुखानि दीप्यन्ते ' इति । हे सूर्य ईदृशस्त्वमसि सत्वं विश्वं रोचनं प्रकाशकं ग्रहनक्षत्रादिकं सुषुम्नाख्येन रश्मिनानुप्रविश्य आभासि दृश्यसे लोकेन, तानि वा प्रकाशयसि, तस्मादुच्यते 'ज्योतिष्कृदसि ' इति ॥ 2-ग्रहणसादने गते । न त्वाम्नातमित्युक्तम् ॥ (इति चतुर्थे एकत्रिंशः.) *आदावेवंचिह्निता अनुवाकाषडप्यत्रानाम्नाता इति भट्टभास्करमित्रैरुच्यते । तथाप्येतेषु प्रथमोनुवाकः प्रदर्शनार्थमेवात्र व्याख्यातः ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy