SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 74 तैत्तिरीयसंहिता का.१. प्र.४. वज्रस्य भर्ता पृः प्रेता तस्य ते देव सोमे॒ष्टयजुषस्स्तुतस्तोमस्य श स्तोक्यस्य हरिवन्तं ग्रहै गृह्णामि योजनः । हर्योः । स्थता । वज्रस्य । अर्ता । पृश्ः । प्रेता । तस्य । ते । देव । सोम । इष्टय॑जुष इतीष्ट-यजुषः । स्तुतस्तोम॒स्येति स्तुत-स्तोमस्य । शस्तोक्थस्योति शस्त-उक्थस्य । हरिवन्त हारियोजनः, ऐन्द्रोसीत्यर्थः । हर्योः स्थाता, होरश्वयोः स्थाता, इन्द्ररूपत्वात् , हरिभ्यां भक्षितऋजीषरूपत्वाहा । वजस्य भर्ता धारयिता इन्द्ररूपत्वादेव । एभेः प्रेता, पृश्नेरन्नस्य यागसाधनद्वारेण प्रेता प्रेरयिता प्रापयिता वा । प्रीङ् तर्पणे । हे सोम देव तस्य तादृशस्य ते तव इष्टयजुषः अध्वर्युभिर्यज्ञे इष्टानि विनियुक्तानि सर्वाणि यजूंषि प्रायेण त्वत्संस्कारार्थानीति इष्टयजुष्टम् । स्तुतस्तोमस्य उद्गातृभिश्च स्तुतास्स्तोमाः स्तोत्राणि त्वदर्थमिति स्तुतस्तोमत्वम् । शस्तोक्थस्य होतृभिश्शस्तान्युक्थानि शस्त्राणि त्वदर्थमिति शस्तोक्थत्वम् । यद्वेन्द्ररूपत्वात्सर्वमुपपद्यते । तस्य तव विशेष*संस्कारसंस्कृतस्य हरिवन्तं हरिमन्तं ग्रहं गृह्णामि, आग्रयणस्थालीगतस्य सर्वस्या गृह्यमाणत्वात् । तस्येत्यन्त्यात् [स्येत्यादेः ?] कर्मणि षष्ठयन्तत्वात्तादृशं हरिवन्तं इन्द्रवन्तं ग्रहं गृह्णामीति । 'छन्दसीरः' इति मतुपो वत्वम् । *ग-होमशेष. क-सर्वस्य ग्रहस्य. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy